________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 518 // विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः श्रुतस्कन्धः१ सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयश:कीर्युच्चैर्गोत्राणांबन्धव्यवच्छेदः, नवममध्ययनं उपधानश्रुतं, तदेवमष्टाविंशतिमोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, सच जघन्यत एकं समयमुत्कृष्टतोऽन्तर्मुहर्त्तम्, तत्प्रतिपातश्च प्रथमोद्देशकः भवक्षयेणाद्धाक्षयेण वा स्यात्, स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च नियुक्ति: 283 उपसर्गमिथ्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्त्तन्ते, एकभव एव कश्चिद् / सहिष्णुता वारद्वयमुपशमं विदध्यादिति / साम्प्रतं क्षपकश्रेणिया॑वर्ण्यते-अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्तमानआरम्भको भवति, स वीरध्यानम् च प्रथममेव करणत्रयपूर्वकमनन्तानुबन्धिनो विसंयोजयति, तत: करणत्रयपूर्वकमेव मिथ्यात्वं तच्छेषं च सम्यग्मिथ्यात्वे प्रक्षिपन् क्षपयति, एवं सम्यग्मिथ्यात्वम्, नवरं तच्छेषं सम्यक्त्वे प्रक्षिपति, एवं सम्यक्त्वमपि, तच्चरमसमये च वेदकसम्यग्दृष्टिर्भवति, तत ऊर्ध्वं क्षायिकसम्यग्दृष्टिरिति, एताश्च सप्तापि कर्मप्रकृतीरसंयतसम्यग्दृष्ट्याद्यप्रमत्तान्ताः क्षपयन्ति, बद्धायुष्कश्चात्रैवावतिष्ठते, श्रेणिकवद्, अपरस्तु कषायाष्टकं क्षपयितुं करणत्रयपूर्वकमारभते, तत्र यथाप्रवृत्तकरणमप्रमत्तस्यैव, अपूर्वकरणे तु स्थितिघातादिकं प्राग्वन्निद्राद्विकस्य देवगत्यादीनां च त्रिंशतां हास्यादिचतुष्कस्य च यथाक्रमं बन्धव्यवच्छेद उपशमश्रेणिक्रमेण वक्तव्यः, अनिवृत्तिकरणे तु स्त्यानर्द्धित्रिकस्य नरकतिर्यग्गतितदानुपूर्येकेन्द्रियादिजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणानां षोडशप्रकृतीनां क्षयः, ततः कषायाष्टकस्यापि, अन्येषां तु मतंपूर्वं कषायाष्टकं क्षप्यते, पश्चात् षोडशेति, ततो नपुंसकवेदम्, तदनन्तरं हास्यादिषट्कम्, पुनः पुंवेदम्, ततः स्त्रीवेदम्, ततः क्रमेण क्रोधादीन् सज्वलनान् क्षपयति, लोभं च खण्डशः कृत्वा क्षपयति, तत्र बादरखण्डानि क्षपयन्ननिवृत्तिबादरः।