________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 498 / / एतच्च पूर्वं व्याख्यातमेव, केवलमिह संस्कृतेनोच्यते- यस्य भिक्षोरेवं भवति-वक्ष्यमाणम्, तद्यथा- अहं च खल्वन्येभ्यो- श्रुतस्कन्धः१ भिक्षुभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च स्वादयिष्यामीत्येको भङ्गकः 1, तथा यस्य भिक्षोरेवं भवति, तद्यथा- अहं च अष्टममध्ययनं विमोक्षम्, खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च नो स्वादयिष्यामीति द्वितीय: 2 तथा यस्य भिक्षोरेवं भवति, तद्यथा- अहं सप्तमोद्देशक: च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः 3 तथा यस्य भिक्षोरेवं भवति, तद्यथा- अहं सूत्रम् 221-222 च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः 4 / इत्येवं चतुर्णामभिग्रहाणा- प्रतिमास्वरूप: मन्यतरमभिग्रहं गृह्णीयात्, अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृह्णीयादिति दर्शयितुमाह- पादपोपगमनं यस्य भिक्षोरेवंभूतोऽभिग्रहविशेषो भवति, तद्यथा- अहं च खलु तेन यथाऽतिरिक्तेन- आत्मपरिभोगाधिकेन यथैषणीयेन / इयत्तेषां प्रतिमाप्रतिन्नानामेषणीयमुक्तम्, तद्यथा-पञ्चसुप्राभृतिकासु अग्रहः द्वयोरभिग्रहस्तथा यथापरिगृहीतेनात्मार्थ स्वीकृतेना-8 शनादिना निर्जरामभिकाय साधर्मिकस्य वैयावृत्यं कुर्याम्, यद्यपि ते प्रतिमाप्रतिपन्नत्वादेकत्र न भुञ्जते तथाप्येकाभिग्रहापादितानुष्ठानत्वात्साम्भोगिका भण्यन्ते, अतस्तस्य समनोज्ञस्य करणाय उपकरणार्थं वैयावृत्यं कुर्यामित्येवंभूतमभिग्रह कश्चिद्गृह्णाति / तथाऽपरं दर्शयितुमाह- वाशब्दः पूर्वस्मात्पक्षान्तरमाह- अपिशब्दः पुनः शब्दार्थे अहं वा पुनस्तेन यथातिरिक्तेन / यथैषणीयेन यथापरिगृहीतेनाशनेन 4 निर्जरामभिकाङ्ग्य साधर्मिकै: क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि- अभिलषिष्यामि, यो वाऽन्यः साधर्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि- यथा सुष्टु भवता कृतमेवंभूतया वाचा, तथा कायेन च प्रसन्न // 498 // दृष्टिमुखेन तथा मनसा चेति, किमित्येवं करोति?- लाघविकमित्यादि गतार्थम् // 222 // तदेवमन्यतराभिग्रहवा भिक्षुरचेलः। सचेलो वा शरीरपीडायां सत्यामसत्यां वा आयुःशेषतामवगम्योद्यतमरणं विदध्यादिति दर्शयितुमाह