________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 477 // परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा निधाय क्षिप्त्वा त्यक्त्वा पापं पापोपादानं कर्म अष्टादशभेदभिन्नं तत् अकुर्वाणः / श्रुतस्कन्धः१ अनाचरन्नेष महान् न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽऽस्येत्यग्रन्थ: व्याख्यात: तीर्थकरगणधरादिभिः प्रतिपादित इति / कश्चैवम्भूतः अष्टममध्ययन विमोक्षम्, स्यादित्याह- ओजः अद्वितीयो रागद्वेषरहितः द्युतिमान् संयमो मोक्षो वा तस्य खेदज्ञो निपुणो देवलोकेऽप्युपपातं च्यवनं च तृतीयोद्देशकः ज्ञात्वा सर्वस्थानानित्यताहितमति: पापकर्मवर्जी स्यादिति ॥२०४॥केचित्तु मध्यमवयसिसमुत्थिता अपि परीषहेन्द्रियैग्लानता परिसहसहनम् नीयन्त इति दर्शयितुमाह आहारोवचया देहा परीसहपभंगुरा पासह एगे सबिंदिएहिं परिगिलायमाणेहिं। सूत्रम् 205 // आहारेणोपचयो येषां ते आहारोपचयाः, के ते?-दिह्यन्त इति देहास्तदभावे तु म्लायन्ते म्रियन्ते वा, तथा परीषहप्रभञ्जिनः परीषहैः सद्भिर्भङ्गरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीषहा वातादिक्षोभेण वा पश्यत यूयमेके क्लीबाः सर्वैरिन्द्रियैग्लायमानैः क्लीबतामीयुः तथाहि-क्षुत्पीडितो न पश्यति न शृणोति न जिघ्रतीत्यादि, तत्र केवलिनोऽप्याहारमन्तरेण / शरीरंग्लानभावं यायाद् आस्तांतावदपरः प्रकृतिभङ्गुरशरीर इति, स्यान्मतं-अकेवल्यकृतार्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति, दयादीनि च व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं धारयति तद्धरणार्थं चाहारयतीति?, अत्रोच्यते, तस्यापि चतुःकर्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीरं बिभृयात्,? तद्धरणंच नाहारमन्तरेण, क्षुद्वेदनीयसद्भावाञ्चेति, तथाहि-वेदनीयसद्भावात्तत्कृता एकादशापिपरीषहा: केवलिनोव्यस्तसमस्ताः प्रादुष्ष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम्, अत आहारमृते ग्लानतेन्द्रियाणामिति प्रतिपादितम् // 205 // विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादि // 477 // त्याह