________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 453 // आह श्रुतस्कन्धः१ नि०- नामंठवणविमुक्खो दव्वे खित्ते य काल भावे य। एसो उविमुक्खस्सा निक्लेवो छव्विहो होइ॥२५७॥ अष्टममध्ययनं विमोक्षम्, नामविमोक्षः स्थापनाविमोक्षो द्रव्यविमोक्ष: क्षेत्रविमोक्ष: कालविमोक्षो भावविमोक्षश्चेत्येवं विमोक्षस्य निक्षेप: षोढा भवतीति गाथासमासार्थं // 257 // व्यासार्थप्रतिपादनाय तु सुगमनामस्थापनाव्युदासेन द्रव्यादिविमोक्षप्रतिपादनद्वारेणाह- नियुक्तिः 257-259 नि०-दव्वविमुक्खो नियलाइएसु खित्तंमि चारयाईसुं। काले चेइयमहिमाइएसुअणघायमाईओ॥२५८॥ विमोक्षनिक्षेपाः द्रव्यविमोक्षो द्वेधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो निगडादिकेषु विषयभूतेषु यो विमोक्षःस द्रव्यविमोक्षः, सुळ्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो द्रव्येभ्यःसकाशाद्विमोक्षो द्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यूह्यायोज्यः, तद्यथा-द्रव्येण द्रव्यात् सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तु यस्मिन् क्षेत्रे चारकादिके व्यवस्थितो विमुच्यते क्षेत्रदानाद्वा यस्मिन्वा क्षेत्रे व्यावर्ण्यते स क्षेत्रविमोक्षः कालविमोक्षस्तु चैत्यमहिमादिकेषु कालेष्वनाघातादिघोषणापादितो यावन्तं कालं विमुच्यते यस्मिन्वा काले व्याख्यायते सोऽभि-8 धीयते इति गाथार्थः // 258 // भावविमोक्षप्रतिपादनायाह नि०-दुविहो भावविमुक्खो देसविमुक्खो यसव्वमुक्खोय। देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा / / 259 // भावविमोक्षो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा- देशतः सर्वतश्च, तत्र॥ 453 // देशतोऽविरतसम्यग्दृष्टीनामाद्यकषायचतुष्कक्षयोपशमाद्देशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां च द्वादशकषायक्षयोपशमात् क्षपकश्रेण्यांच यस्य यावन्मानंक्षीणं तस्य तत्क्षयाद्देशविमुक्ततेत्यतःसाधवो देशविमुक्ता, भवस्थकेवलि