________________ द्युतं, श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 431 // धूननम् वा अन्यथा व्याचक्षते-तद्यथा-भावद्वीपः सम्यक्त्वम्, तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकं च सन्दीनो भावद्वीपः, श्रुतस्कन्ध:१ क्षायिकं त्वसन्दीन इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति, भावद्वीपस्तु सन्दीनः श्रुतज्ञानं असंदीनस्तु / षष्ठमध्ययनं केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति, अथवा धर्मं संदधानः समुत्थितः सन्नरतेर्दुष्प्रधृष्यो भवतीत्युक्ते कश्चिच्चो-8 तृतीयोद्देशकः दयेत्-किम्भूतोऽसौधर्मो? यत्सन्धानाय समुत्थित इति, अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीनः- असलिलप्लुतोऽवरुग्णवहनाना-8 सूत्रम् 184 मितरेषांच बहूनांजन्तूनांशरण्यतयाऽऽश्वासहेतुर्भवत्येवमसावपि धर्म: आर्यप्रदेशित: तीर्थकरप्रणीतः कषतापच्छेदनिर्घटितोऽ उपकरणशरीर सन्दीन:, यदिवा कुतर्काप्रधृष्यतयाऽसन्दीन:- अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति / तस्य चार्यदेशितस्य धर्मस्य / किं सम्यगनुष्ठायिनः केचन सन्ति?, ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्यत आह- ते साधवो भावसन्धानोद्यता: संयमारते: प्रणोदका मोक्षनेदिष्ठा भोगाननवकासन्तो धर्मे सम्यगुत्थानवन्तः स्युरिति, एतदुत्तरत्रापि योज्यम्, तथा प्राणिनोऽनतिपातयन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यम्, तथा कुशलानुष्ठानप्रवृत्तत्वाद्दयिताः सर्वलोकानाम्, तथा मेधाविनो मर्यादाव्यवस्थिता: ‘पण्डिता' पापोपादानपरिहारितया सम्यक्पदार्थज्ञा धर्मचरणाय समुत्थिता भवन्तीति। ये पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेकविकलतया नाद्यापि पूर्वोक्तसमुत्थानवन्त: स्युः, ते तथाभूता आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतद्दर्शयितुमाह- एवं उक्तविधिना तेषां अपरिकर्मितमतीनां भगवतो वीरवर्द्धमानस्वामिनो धर्मे सम्यगनुत्थाने सति तत्परिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति, अत्रैव दृष्टान्तमाह-द्विजः- पक्षी // 431 // तस्य पोत:-शिशुः द्विजपोत: स यथा तेन द्विजेन गर्भप्रसवात्प्रभृत्यण्डकोच्छूनोच्छूनतरभेदादिकास्ववस्थासुयावन्निष्पन्नपक्षस्तावत्पाल्यते एवमाचार्येणापि शिक्षक: प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपाल्यते यावद्गीतार्थोऽभूत्,