SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 429 // श्रुतस्कन्धः 1 षष्ठमध्ययनं द्युतं, तृतीयोद्देशकः सूत्रम् 184 उपकरणशरीर धूननम् इति सम्बन्धः, तथा संसारश्रेणी संसारावतरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणी कृत्वा, तथा परिज्ञाय ज्ञात्वा च। समत्वभावनया, तद्यथा- जिनकल्पिकः कश्चिदेककल्पधारी द्वौ त्रीन् वा बिभर्ति, स्थविरकल्पिको वा मासार्द्धमासक्षपकः तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, उक्तं च जोवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ / न हु ते हीलेंति परं सोवि हु ते जिणाणाए ॥१॥तथा जिनकल्पिकःप्रतिमाप्रतिपन्नोवा कश्चित्कदाचित्षडपि मासानात्मकल्पेन भिक्षांन लभेत तथाऽप्यसौ कूरगडुकमपि यथौदनमुण्डस्त्वमित्येवं नहीलयति / तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्य एष उक्तलक्षणो मुनिस्तीर्ण: संसारसागरं एष एव मुक्त: सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति / इतिब्रवीमिशब्दौ पूर्ववत्॥१८३॥ तदेवं संसारश्रेणीं विश्लेषयित्वा यः संसारसागरं तीर्णवत्तीर्णो मुक्तवन्मुक्तो विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्मणोऽभिभवेदित्येतदेवाह विरयं भिक्खुरीयंतं चिरराओसियं अरई तत्थ किं विधारए?, संधेमाणे समुट्ठिए, जहा से दीवे असंदीणे एवंसे धम्मे आरियपदेसिए, ते अणवकंखमाणा पाणे अणइवाएमाणा जइया मेहावि- णो पंडिया, एवं तेसिं भगवओ अणुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया यराओय अणुपुव्वेण वाइय। सूत्रम् 184 // त्तिबेमि॥धूताध्ययने तृतीयोद्देशकः // 6-3 // विरतमसंयमा भिक्षणशीलं भिक्षुरीयमाणं निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्य: प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्तमानं चिररात्रं- प्रभूतं कालं संयमे उषितश्विररात्रोषितस्तमेवंगुणयुक्तं अरति: संयमोद्विग्नता तत्र तस्मिन् संयमे प्रवर्त्तमानं किं विधारयेत् किं प्रतिस्खलयेत्?,किंशब्दःप्रश्ने, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्य विषयमरतिर्विधारयेत्, ओमित्युच्यते, तथाहि // 429 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy