________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 404 // // अथ षष्ठमध्ययन धुताख्यम्॥ श्रुतस्कन्धः१] ॥प्रथमोद्देशकः॥ षष्ठमध्ययन धूतम्, उक्तं पञ्चममध्ययनम्, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तराध्ययने लोकसारभूतः संयमो मोक्षश्च प्रथमोद्देशकः प्रतिपादितः, सच निःसङ्गताव्यतिरेकेण कर्मधुननमन्तरेण च न भवतीत्यतस्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धे- नियुक्तिः 249-250 नायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, अर्थाधिकारः तत्राध्ययनार्थाधिकारः प्रागभाणि, उद्देशार्थाधिकारं तु नियुक्तिकारो बिभणिषुराह• नि०- पढमे नियगविहुणणा कम्माणं बितियए तइयगंमि। उवगरणसरीराणं चउत्थए गारवतिगस्स // 249 // प्रथमोद्देशके निजका:- स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, द्वितीये कर्मणाम्, तृतीये उपकरणशरीराणाम्, चतुर्थे / गौरवत्रिकस्य, विधूननेति सर्वत्र सम्बन्धनीयम्, // 249 // नि०- उवसग्गा सम्माणयविहूआणि पञ्चमंमि उद्देसे। दव्वधुयं वत्थाई भावधुयं कम्म अट्ठविहं / / 250 // उपसर्गा: सन्माननानि च, यथा साधुभिर्विधूतानि तथा पञ्चमोद्देशके प्रतिपाद्यत इत्यर्थाधिकारंपरिसमापय्य निक्षेपमाहसच त्रिधा, तत्रौघनिष्पन्नेऽध्ययनम्, नामनिष्पन्ने तु धूतम्, तच्च चतुर्दा, तत्रापि नामस्थापने सुगमत्वादनादृत्य द्रव्यभावधूतप्रतिपादनाय गाथाशकलं ... // 404 // द्रव्यधूतं द्विधा- आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्त:, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यधूतं द्रव्यं च तस्त्रादिधूतं च रजोऽपनयनार्थं द्रव्यधूतम्, आदिग्रहणादृक्षादिफलार्थम्, भावधूतं काष्टविधम्, तद्विमोक्षार्थं 8