________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 402 // कुमार्गपरि त्यागः निर्वाणमप्यनवधारितभीरुनिष्ठम् / मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् // 1 // तथा न विद्यते श्रुतस्कन्धः१ पञ्चममध्ययन सङ्गोऽमूर्त्तत्वाद्यस्य स तथा, तथा न स्त्री न पुरुषो नान्यथेति-न नपुंसकः, केवलं सर्वैरात्मप्रदेशैः परि:-समन्ताद्विशेषतो जाना लोकसारः, तीति परिज्ञः, तथा सामान्यतः सम्यग्जानाति-पश्यतीति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम स्वरूपतो न ज्ञायते मुक्तात्मा षष्ठोद्देशकः तथाऽप्युपमाद्वारेणादित्यगतिरिव ज्ञायत एवेति चेत्, तन्न, यत आह- उपमीयते सादृश्यात् परिच्छिद्यते यया सोपमा-तुल्यता सूत्रम् 172 सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषाम्, कुत एतदिति चेदाह- तेषां मुक्तात्मनांया सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव / किंच-न विद्यते पदं- अवस्थाविशेषो यस्य सोऽपदः, तस्य पद्यते- गम्यते / रागद्वेषहानिश्च येनार्थस्तत्पदं-अभिधानं तच्च नास्ति न विद्यते, वाच्यविशेषाभावात्, तथाहि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतद्दर्शयितुमाह, यदिवा दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतम्, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह सेन सद्दे न रूवे न गंधे न रसेन फासे, इच्चेयावंति त्तिबेमि / / सूत्रम 172 // ॥षष्ठ उद्देशकः / / लोकसाराध्ययनं समाप्तम् // 5-6 // स मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेष: सम्भाव्यते येनासौ व्यपदिश्येतेति भावार्थः / इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / गतः सूत्रानुगमः, 8 // 402 // तद्गतौ चापवर्गमाप्त उद्देशकः, तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं लोकसाराख्यं पञ्चममध्ययनमिति ॥ग्रन्थाग्र०