SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 188 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशक: सूत्रम् 65 इन्द्रियनिरूपणम् लालायते। वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते // 1 // इत्यादि। तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरक्तचेतास्तदपवादाञ्जनायाचष्टे, आह च-'सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरंदर्शयति, ते वा निजास्तं परिवदन्ति, सवा जराजर्जरितदेहस्तान्निजाननेकदोषोद्घट्टनतया परिवदेत्निन्देद, अथवा खिद्यमानार्थतया तानसाववगायति परिभवतीत्यर्थः / येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्ति, आह च-नाल मित्यादि, नालं- न समर्थाः ते-पुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थं त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितंप्लवमासाद्याप-2 स्तरतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीय ते तदुच्यते, तत पुनदुर्ग पर्वतः पुरुषो वेति, एतदुक्तं भवति जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वेति, उक्तं च जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते। जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके // 1 // इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-से ण हस्साए इत्यादि, स जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् न परान् हसितुं योग्यो भवतीत्यर्थः, स च समक्षं परोक्षं वा एवमभिधीयते जनै:- किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै- न चलङ्घनवल्गनास्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयतेन लज्जते भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गुहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलीकः स नैव शोभते, उक्तं च न विभूषणमस्य (c) तद्व्यतिरिक्त० (प्र०)। 0 विद्यमाना० (प्र०) / // 1
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy