________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 165 // वर्गणा जघन्याः, एता अपि प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टो: कियदन्तरं?, जघन्याभ्य श्रुतस्कन्धः१ द्वितीयमध्ययन उत्कृष्टा विशेषाधिका, विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाजघन्योत्कृष्टान्तरालवर्गणानामानन्त्यं भवति, लोकविजयः, तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति, एवमेकादिवृद्ध्योत्कृष्टान्ता अनन्ताः, ताश्चातिसूक्ष्मत्वाद् बहु प्रथमोद्देशकः प्रदेशत्वाच्च तैजस्याग्रहणयोग्याः, बादरत्वात् अल्पप्रदेशत्वाच्च भाषाद्रव्यस्यापीति, जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषो, नियुक्ति: 192 कर्मनिक्षेपा: गुणकारश्चाभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभाग इति, तस्यामयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति, तस्याश्च प्रदेशवृद्ध्या उत्कृष्टवर्गणापर्यन्तान्यनन्तानि स्थानानि भवन्ति, जघन्योत्कृष्टयोर्विशेषो जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा भवति, अत्राप्यनन्तभागस्यानन्तपरमाण्वात्मकत्वाद्भाषाद्रव्ययोग्यवर्गणानामानन्त्यमवसेयम्, तदनेनैकादिप्रदेशवृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिकं ज्ञातव्यम्, नवरं जघन्योत्कृष्टयोर्भेदोऽयम्, अभव्यानन्तगुणः सिद्धानन्तभागात्मकः, तासांच पूर्वहेतुकदम्बकादेव भाषाद्रव्यानापानद्रव्ययोरयोग्यत्वमवसेयम्, अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या, ततो रूपोत्तरवृद्ध्योत्कृष्टवर्गणान्ता अनन्ता भवन्ति, जघन्यात उत्कृष्टा जघन्यानन्तभागाधिका, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदेनाग्रहणवर्गणा, विशेषस्त्वभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभागः, पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्ध्या जघन्योत्कृष्टभेदा मनोद्रव्यवर्गणा, जघन्यवर्गणानन्तभागो विशेषः, पुनरपि प्रदेशोत्तरक्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्तगुणादिकः, ताश्च प्रदेशबहुत्वादतिसूक्ष्मत्वाच्च मनोद्रव्यायोग्याः, अल्पप्रदेश 8 // 165 // त्वाद् बादरत्वाच्च कार्मणस्यापि, तदुपरि रूपे प्रक्षिप्ते जघन्याः कार्मणशरीरवर्गणाः, पुनरप्येकैकप्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कः प्रतिविशेष इति?, उच्यते, जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा,