SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१] // 86 // एत्थ सत्थं समारभमाणस्य इच्चेए आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावी णेव सयं उदयसत्थं समारम्भेजा णेवण्णेहिं उदयसत्थं समारंभावेज्जा उदयसत्थं समारंभंतेऽवि अण्णे ण समणुजाणेजा, जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे॥त्ति बेमि // सूत्रम् 31 // इति तृतीयोऽप्कायोद्देशकः॥ एतस्मिन् अप्काये शस्त्रं द्रव्यभावरूपं समारभमाणस्येत्येते समारम्भा बन्धकारणत्वेनापरिज्ञाता भवन्ति, अत्रैवाप्काये। शस्त्रमसमारभाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञापूर्विकां दर्शयति- तदु दकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी- मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, नैवान्यानुदकशस्त्रं समारभमाणान्समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति // 31 // ब्रवीमीति पूर्ववद् / इति शस्त्रपरिज्ञायां तृतीयोद्देशकः समाप्तः॥ श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 31 अनगारस्वरूपम् चतुर्थोद्देशकः ॥प्रथमाऽध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके मुनित्वप्रतिपत्तयेऽप्कायः प्रतिपादितः, तदधुना तदर्थमेव क्रमायातस्तेजस्कायप्रतिपादनायायमुद्देशकः समारभ्यते-तस्य चोपक्रमादीनि चत्वार्यनु
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy