SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सम्पादकीयम् | श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 9 // यथा साधुभिर्विधूतानि तत्प्रतिपादितम्। सप्तममध्ययनं व्युच्छिन्नम्। स्वजनादिधूननेन यद्यन्तकाले सम्यग्निर्वाणं स्यात्तदा साफल्यमनुभवतीति अष्टमं विमोक्षाऽध्ययनं प्रतिपादितम् / प्रथमोद्देशके त्रिषष्ट्यधिकानां प्रावादुकशतानां विमोक्षःपरित्याग: कार्यः, द्वितीयोद्देशके आधाकर्मादेविमोक्ष: कार्यः, तृतीयोद्देशके गोचरगतस्य यते: शीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्यारेकाव्युदासाय अर्थकथना / चतुर्थोद्देशके व्यासत उपकरणशरीराणां विमोक्ष: वैहानसंगाद्धपृष्ठं च मरणम्, पञ्चमोद्देशके ग्लानता भक्तपरिज्ञा च, षष्ठोद्देशके एकत्वभावना तथेगितमरणंच, सप्तमोद्देशके भिक्षुप्रतिमास्तथा पादपोगमनं च, अष्टमोद्देशके द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिज्ञेङ्गितमरणं पादपोपगमनं वा यथा भवति तत्प्रतिपादितम्। ___अष्टष्वध्ययनेषु योऽर्थोऽभिहितः स तीर्थकृता वर्धमानस्वामिना स्वत एवाचीर्ण इति नवमं उपधानश्रुताऽध्ययनम्, प्रथमोद्देशके श्रीवीरवर्धमानस्वामिनो विहारः, द्वितीयोद्देशके शय्यावसतिनिरूपणम्, तृतीयोद्देशके अनुकूलप्रतिकूलोपसर्गा येऽभूवन् तत्प्रतिपाद्यते, चतुर्थोद्देशके क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सा पञ्चमोद्देशके तपश्चरणाधिकारः प्रतिपादितः। पू.श्रुतोपासकमुनिराजश्रीजम्बूविजयेन संशोधिताः पाठा गृहीताः सन्ति मुद्रिताश्च पाठा: टीप्पण्यां (मु०) संज्ञया स्थापिताः सन्ति। एतदाचारंपरिपाठनात् सर्वे भव्याः शुद्धचारित्रवन्तः स्युस्तथा चारित्रपरिणामेन यथाख्यातं चारित्रं प्राप्य मोक्षमासन्नं कुर्वन्तु। मुनिपुण्यकीर्तिविजयो गणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई -400006. | विक्रम सं०२०६३ वीर सं०२५३३ // 9 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy