SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सम्पादकीयम् श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 8 // विषयकषायादौ चादृढत्वं कार्यम्, तृतीये मानोन कार्य:, चतुर्थे भोगेष्वभिष्वङ्गोन कार्यः, पञ्चमे लोकनिश्रया विहर्त्तव्यम्, षष्ठे पूर्वापरसंस्तुतेऽसंस्तुते च लोके ममत्वं न कार्यमित्युपदेशः। चारित्रसंपन्नस्य मुमुक्षो: कदाचिदनुलोमप्रतिलोमा: परीषहाः प्रादुष्षन्ति, तेऽविकृतान्त:करणेन सोढव्या इति तृतीयंशीतोष्णीयाध्ययनम्, प्रथमोद्देशके भावनिद्रया सुप्तानां गृहस्थानां दोषा जाग्रतांच गुणा अभिधीयन्ते, द्वितीये तेऽसंयता गृहस्था भावनिद्रापन्ना यथा दुःखमनुभवन्ति तथोच्यते, तृतीये नैव दुःखसहनादेव केवलाच्छ्रमणश्चतुर्थे तु कषायाणां वमनं कार्यं पापस्य च कर्मणो विरतिरिति / प्रतिपादितम्। प्रथमाध्ययने शस्त्रपरिज्ञायां षड्जीवनिकायं प्ररूपयता जीवाजीवपदार्थद्वयं प्ररूपितं तथा जीववधे बन्धं विरतिं च भणताऽऽश्रवसंवरपदार्थद्वयमूचे, लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यते इति वदता बन्धनिर्जरे गदिते, शीतोष्णीयाध्ययने परीषहाः सोढव्या इति भणता तत्फलस्वरूपो मोक्षोऽभिहित एवं सप्तपदार्थात्मकं तत्त्वमभिहितं तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते इति चतुर्थं / सम्यक्त्वाध्ययनं प्रतिपादितम् / प्रथमोद्देशके सम्यग्वादः द्वितीयोद्देशके धर्मप्रवादिकपरीक्षा तृतीयोद्देशकेऽनवद्यतपोव्यावर्णनं चतुर्थोद्देशके संयम उक्त एवं यथाक्रमं सम्यग्दर्शनज्ञानतपश्चारित्रमुक्तं मोक्षाङ्गंतस्मिन् मुमुक्षुणा यतितव्यम्। 8 चतुर्थाध्ययनेसम्यक्त्वं प्रतिपादितं तदन्तर्गतंच ज्ञानम्, तदुभयस्य च चारित्रफलं तच्च प्रधानंमोक्षाङ्गम् / मोक्ष एव लोकस्य सारस्तस्मात् पञ्चमं लोकसाराऽध्ययनम्, प्रथमोद्देशके हिंसको विषयारम्भकश्चन मुनि:, द्वितीयोद्देशके हिंसादिपापस्थानकेभ्यो विरतो मुनिः, तृतीयोद्देशके विरतो मुनिरपरिग्रहो भवति, चतुर्थोद्देशके अगीतार्थस्य प्रत्यपाया भवन्ति, पञ्चमोद्देशके हृदोपमेन साधुना भाव्यम्, षष्ठोद्देशके उन्मार्गवर्जना इत्यादि प्ररूपितम्। लोकसारभूत: संयमो मोक्षश्च निःसङ्गताव्यतिरेकेण कर्मधुननमन्तरेण च न भवति तत्प्रतिपादनार्थं षष्ठंधूताऽध्ययनम्, प्रथमोद्देशके स्वजनधूननं द्वितीयोद्देशके कर्मधूननं तृतीयोद्देशके उपकरणशरीरधूननं चतुर्थोद्देशके गौरवत्रिकधूननं पञ्चमोद्देशके उपसर्गा: सन्मानानि च
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy