________________ चरित्र त्रिभुवन // 46 // विज्ञाय निजमानसेऽतीव हष्टः, यतः-कत्थवि वरो न कन्ना / कत्थवि कन्ना न संदरो जत्ता // वरकन्नाणं जोगो। अन्तहो होइ लोगाणं // 1 // एवंविधो मेलापकः पुण्यर्विना न लभ्यते. एवं तस्य त्रिनुवनकुमारस्य पुण्यप्रभावेण षोमशशृंगारयुतानामतीवमनोहराणां चतुःकन्यानां पाणिग्रहणं जातं; यतः-यादौ मजनचीरहारतिलकं नेत्रांजनं कुंमलं / नासामौक्तिकपुष्पमाल नरणं ऊंकारकृन्नूपुरं // अंगे चंदनकंचुकीचमणिक्षुद्रावलीघंटिका / तांबूलं करकंकणं निगदिताः शंगारकाः षोमश // 1 // एवं कियदिनानि तत्र स्थित्वा स स्वनगरंप्रति तेन रंगसेनभूपेन युतः चलितः. मार्गस्थिताः सर्वेऽपि भूपास्तनयेन कंपितहृदयाः प्राज़तपा यस्तस्य सन्मुखमागचंति, नतांश्च तान् तत्सैन्ययुतान् साथै गृहीत्वा सोऽग्रतश्चचाल. एवं कृतप्रयाणोऽसौ कियदिनानंतरं कांतिनगरसमीपे समागतः. अथ निकटागतं तन्महसैन्यं दृष्ट्वा तत्रत्यमहाकालभूपस्य हृदये महती भीतिः समुत्पन्ना, विचारितं च तेनाधुना किं करोमि ? इतस्तस्य त्रिभुवनकुमारस्य तत्सकलमपि सैन्यं तन्नगरासन्ने तटिनीतटे समु. त्तीर्ण. चिंतामणिप्रनावाच्च तत्र तेन गवादादिनिर्ममिता मनोहरा यावासा निष्पादिताः.