________________ त्रिभुवन // 38 // ग? कुमारेणोक्तं पथश्रांतोऽहमथ कुत्र यामि? कुमार्योक्तमत्रापवरकमध्ये त्वया स्थेयं, कुमा- IN चरित्र रोऽपि तत् श्रुत्वा तत्र स्थितः. इतो छारे स राक्षसः समागतः, तदा तया कन्यया शीघं तत्सन्मुखमागत्योक्तं, हे तात! अद्य तु ममायकृतपक्वान्न जोजनेच्या वर्तते, अतस्त्वं पकान्नं कुत्राप्यानीय मम प्रय? राक्षसेनोक्तं हे वत्से! अत्र निर्मानुषे नगरेऽयकृतं पक्वान्नं न मिलिष्यति. ततः कन्याया अतीवाग्रई विज्ञाय स पक्वान्नानयनायान्यत्र कुत्रापि गतः. तदनं. तरं तया तमपवरकं समुद्घाट्य तत्र स्थिताय कुमाराय प्रोक्तं, मयाधुना स रादप्तोऽन्यत्र प्रेषितोऽस्ति, अतस्त्वमथेतो निःसृत्य कुत्रापि गब? तदा कुमारेणोक्तमहं यास्यामि, परमत्र स्थितस्यास्य मंचकस्य क उपयोगोऽस्ति? कन्यया प्रोक्तं नो सत्पुरुष! मंचकोऽयं गगनगामी, तदुपरिस्थितोऽयं राक्षलः कदाचिन्मनोवांछितं स्थानं याति, पश्चाच्च तदुपरिस्थ एवात्रागति. तत् श्रुत्वा तत्रस्थपेटात्रयं तन्मंचकोपरि मुक्त्वा तेन कुमारेण कन्यायै प्रोक्तं, त्वमप्यत्रैव मंचके समुपविश? तदा सा कन्यापि तत्र स्थिता, ततः स कुमारोऽपि तत्र समुपविश्य जगाद, भो मंचक! अथ त्वं वेलाकृले ईश्वरप्रासादे याहि? तूर्णमेव स मंचको गगने समुत्पत्य // 38 //