________________ // 30 // त्रिभुवन / पात्रयं च गृहीत्वास्मिन्नीश्वरप्रासादमध्ये गच्छ, यावदई स्नानं कृत्वात्रागच्छामि. अथ तया चरित्रं कन्ययापि तत्सर्व देवप्रासादमध्ये समानीतं, श्रीमहादेवं च प्रणम्य, तत्सर्व स्वपावें च संस्थाप्य, यत्र तत्कन्याघ्यं समुपविष्टमासीत्, तत्र गत्वा, तयोः प्रणम्य सापि तत्रोपविष्टा. अथ कुमारो मूलिकामाघाय स्वकीयं वृद्धरूपं विधाय श्रीईश्वरं च नत्वा मंदिरछारे समुपविष्टः. यतः-वदनं दशनविहीनं / वाचो न परिस्फुटा शक्तिः // विगता चेंद्रियशक्तिः।। पुनरपि बाल्यं कृतं जरया // 1 // अंगं गलितं पलितं मुंमं / दशनविहीनं जातं तुंडं // वृद्धो याति गृहीत्वा दंडं / तदपि न मुंचत्याशापिमं // 2 // एवंविधोऽसौ वृको हारे स्थितो मुहुर्मुहस्तत्कन्यात्रयसन्मुखं विलोकयति. इतो महादेवार्चकस्तमीश्वरं प्रपूज्य बहिरागतः, तेन तत्स्त्रीत्रयं दृष्ट्वा प्रोक्तं नो नो कन्ये! युष्माकं याचित् कार्य स्यात्तत्कथयध्वं ? येनाहं युष्मदभिधानपूर्व युष्मत्कार्यकथनेन श्रीमहादेवा- | भिषेकं करोमि. एवं तेन बहुवारमालापिता अपि ताः किंचिदपि नावोचन्. अथासावर्चकश्चिंतयति, एतासु बुजुक्षितास्वहं कथं नोजनं करोमि? अतोऽहं नगरमध्ये गत्वा राजाप्र