________________ त्रिभुवन चरित्रं // 28 // गम्यते? कन्ययोक्तमस्मिन्नपरवरके त्वं याहि? इति श्रुत्वा कुमारस्तत्र गतः. कुमार्योक्तं त. त्रापवरके या मूलिकाः संति, तदाघ्राणं त्वया न कर्तव्यं. इत्युक्त्वा कुमार्या तदपवरकछारं दत्तं. अथ तत्र स्थितेन तेन कुमारेण चिंतितं यदनया कथितं मूलिकाघ्राणनं न कर्तव्यं, तस्य किं कारण? इति विचिंत्य तेनैका मूलिकाघ्राणिता, तत्कालमेवासौ वृद्धो जातः, ततस्तेन नत्रस्था द्वितीया मूलिकाघाणिता. तदासौ तूर्णमेव मूलरूपो युवा बभूव. ततस्तेन ते उन्ने अपि मूलिके निजवनग्रंथो बद्धा. अथ तस्मिन्नवसरे स राक्षसोऽपि कुमारीपार्थे समागतः, कुमायोक्तं नो तात! अद्य मम सुखनदिकानक्षणेष्ठा वर्तते, तेनोक्तं नो पुत्रि! गृहमध्ये वही सुखजदिकास्ति, तामानीय भक्ष्यस्व? तयोक्तं हे तात! अद्य नवीनां मनोहरामधुनैव निर्मितां पक्वान्नादिकां सुखनक्षिकां कुतोऽप्यानीय मम देखि? राक्षसेनोक्तमत्र शून्यनगरेऽधुना निर्मिता सुख नदिका न मिलिष्यति. ततः कन्याग्रहं विज्ञाय स तदानयनाय कुत्रापि नगरे गतः. अथ तया कन्यया तदपवरकहारमुद्घाट्य स कुमारो बहिराकारितः, कथितं चाथ त्वं कृत्रापि गन्न? विलंबं च मा कुरु? कुमारेणोक्तमहं यास्यामि, परमत्रस्थोऽयं