SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्र | ततो मोहराजमंत्रिसामंतेर्मिलित्वैककालमेवोक्तमहो जानाति देव्येवैवं वक्तुं, एवमेवैतदिति. अन्यदा || ज समुत्पन्नः स जीवो मनुष्येषु. प्रतिपन्नस्तत्र तेन सम्यक्त्वेन सह दानधर्माभिग्रहः, सोऽपि भग्नो मोहप्रेन Hषितैर्दानांतरायकार्पण्यादिभिः. ततो भ्रांतो भवेषु. अन्यदा मनुष्येष्वेव पुनर्जातोऽसौ, प्रतिपन्नश्च तेन त्र शीलधर्माभिग्रहः, सोऽपि भग्नस्तेन तीत्रवेदोदयकुसंसर्गादिभिः, ततः संसारं परिभ्रम्य पुनर्मनुष्येषु जातेन तेनांगीकृतस्तपोऽभिग्रहः, सोऽपि लोपितस्तेन लौल्यनिःसत्वादिभिः. ततो भवं भ्रांत्वान्यदा पुनव मनुष्येष्वेवावतीर्य स्वीकृतस्तेन भावनाभिग्रहः, सोऽपि नाशित आर्तरौद्रचिंतादिभिस्तेन. एवं देशविरव रतिरपि क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिप्रमाणेषु भवेषु तेन प्रतिप्रन्ना, नाशिता चाप्रत्याख्यानावरण कषायादिमहादुष्टमोहबलेनेति. अत्रांतरे चंद्रमौलिपार्थिवेन विस्मयहर्षभक्तिभरप्रेरितमानसेन भुवनभा नुकेवलिनं प्रणम्योक्तं हे भगवन्नतिदुस्तरा महादुष्टमोहादिशत्रवः, ये चैवमचिंत्यमसह्यमतिविस्मयकरं च | a विडंबयंति प्राणिनः. अस्य च सकलसिद्धांतपरमरहस्यभूतस्याख्यानकस्य मध्ये संदेहमानं किंचित्पृच्छाH मोत्यप्रसादो न विधेयः. पूर्व किल सम्यग्दृष्टेरुत्कृष्टोऽप्यपार्धपुद्गलपरावर्तः संसार इत्युक्तं. तत्र चास्य / प्रस्तुतजीवस्य सम्यक्त्वस्पर्शना देशविरतिस्पर्शना च प्रत्येकमसंख्यभवेषु जाता, तत्परिभ्रंशे चांतराले / // 85 // IDEO RIDE ELED THE SERIODOGGOOD
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy