SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं // 76 // DIDIOMMENTER Offffffaita / प्रायेण मस्तकं लुंचयित्वा सद्य एव प्रबजितैर्भूयते, तदेतत्त्वं कथं न करोषि? तत एतां सागरमृषावा- 1 न दादिशिक्षा चेतसि परिणमय्य स लग्नो निःशंकतया कूटक्रयाद्यलीकानि भाषितुं. ततो भग्नवत इति / परिहृतोऽसौ देशविरत्या, केवलं कुलाचारेणैव गच्छति स देवगृहादिषु, कारयति च पूजादिकं. गुरुमातृ-- बंधुशिष्टादिभिः शिक्षितोऽपि स न करोति सागरमृषावादादिपरिहारं. ततो विराधितसम्यक्त्वोऽसो मृत्वा न समुत्पन्नो हीनव्यंतरेषु, जातश्च सर्वथा तत्रानादेयवचनः, निर्गतश्च स्वस्थानाद्ममत्यसावशुभदेशेषु, | ततोऽप्युध्धृतोऽत्र जातोऽसौ क्वचित्सर्वथा मूकः, क्वापि स्खलद्वचनः, क्वचित्वथितमुखगंधः, क्वापि कंठ. तालुजिह्वादशनौष्टवदनादिरोगी, क्वचित्पुत्रकलत्रादीनाप्यग्राह्यवचनो भूत्वा गतो नरकेषु तिर्यक्षु चातिदाखितो भ्रांतः प्रभूतकालं. अन्यदा च समुत्पन्नोऽसौ श्रावकवणिजः सोमनामा पुत्रः, प्रतिपन्नं तथैव तेन धनधान्यद्रविणसुवर्णरजतवस्त्रतृणधनादिबादरवस्तुनामदत्तानां द्विविधंत्रिविधेन ग्रहणनिवृत्तिलक्षणं तृतीयं स्थूलादत्तादानविरतिव्रतं, प्रत्याख्याताश्च तस्कराहृततस्करप्रयोगविरुद्धराज्यातिक्रमकूट| तुलाकूटमानवस्तुविनिमयव्यवहारलक्षणाः पंचापि तदतिचाराः, एतदप्यप्रत्याख्यानावरणबहुलिसागर| स्तेयायुपदेशाद्भक्त्वा विराधितसम्यक्त्वो हीनदेवेषूत्पत्तिक्रमेण तथैव भ्रांतः सदैव दारिद्र्यादिभावेन / / 76 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy