SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ भुवन // 71 // BI विभवस्तथा बद्धस्पर्धः सागरोऽपि. ततश्चातीवप्रेरितोऽवज्ञयाधिक्षिपति दिवान् गाढमाराधिता अपि न || कस्याप्येते रूपकमपि प्रयच्छति. एवं द्वेष्टि गुरून, विघ्नमिव मन्यते तदपदेशान अनाहतो धर्मकृत्येष, | तत्परः पापेषु, ततः परिहृतः सम्यग्दर्शनेन निःशंकं, आक्रांतश्च मिथ्यादर्शनादिमोहबलेन, ततः प्रारब्धाः | | पुनर्बहवो द्रविणार्जनोपायाः, प्रवर्धते च सह क्लेशैरसंतोषेण च प्रतिदिनं विभवस्तावद्यावन्मेलितास्तेन | | बह्वयो रत्नकोटयः, प्राप्तश्चेभ्यसंपत्तिं, तथाप्यर्जितस्य परिपालनव्यसनेन अनुपार्जितस्य तृपार्जनमहा- | व कांक्षया न शेते स रात्री, न भुंक्त दिवा, निरीक्षते निरंतरं लेखकानि, करोत्यहर्निशमेव धनोत्खातानि- | खातानि, पितरमप्युद्वेजति कपर्दिकार्थ, मातरमपि परित्यजति धनव्ययशंकया, न तिलतुषत्रिभागमात्र- | व मपि याचकाय ददाति, स्वदृष्ट्यवलोकितं गणितं तोलितं च महाकष्टेन बहुधार्थितो ददाति कुटुंबस्यापि / वर्तनं. भुक्तं स्वयमप्यतिपुराणं धान्यं, संचयति नूतनमग्रेतनवर्षस्यार्थे, न कस्यापि विश्वासं करोति. H देयमपि वहस्तेनैव ददाति. अन्यदा च मातुलसुतभ्रातुरर्पितस्तेन कथमपि कोटिरत्नप्रमाणो राशिः, | B तल्लेख्यके च क्रियमाणे कथमपि न पूर्णाः पंचबोड्डुकाः कपर्दिकानां. तदर्थं च सप्ताहोरात्राण्युज्जागरं B कृत्वा कारितोऽसौ लेखकं, ततोऽसो मृतश्च विसूचिकया. ततः करचंडोऽयं महाकंथको दग्धहस्तश्चेति | ना॥ 71 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy