________________ रित्र भुवन // 57 // DEEDOWDE जिवलनानजिDि - गृहे. ततोऽन्यदिवसेऽवाप्तप्रसरया तया या प्रधाना दुह्यमाना महिषी गृहे आसीत् सा तस्य जारपुरुषस्य च |पादिपसार्य धारिता क्वचिद्गुप्तप्रदेशे. ततः सिंहेनोक्तं प्रिये महिषी किं न दृश्यते? तया प्रोक्तं न जा. नाम्यहं. ततस्तद्व्यतिकरे आतोऽसो सर्वत्र तामन्वेषयति यावच्च क्वापि तच्छृद्धिमपि न लभते तावदागत्य गृहे दीर्घ निःश्वस्योपविष्टोऽसौ वदति, हे प्रिये ! गता सा तादृशी महिषी यदीडशी पृथिव्यां न दृश्यते. ततस्तया प्रोक्तं यादृशी नव पितृषु भक्तिस्तादृश्ययापि धनं किंचिद्गमयिष्यति. ततो वेगेनोत्थाय तच्चरणयोर्विलग्य प्रोक्तमनेन यथा त्वं वदसि तथैव तत्, कृता हि मया लोकजल्पैः पितृणामवज्ञा. तदिदानी तथा कथंचित्तानाराधय यथा पुनस्ते प्रसीदंत्यस्मासु. ततः प्रकुपितासो जगाद अरे दुष्ट! अथापसर मत्तो दूरमित्युक्त्वा सा तं चरणघातैराहत्य पुनः पुनस्तस्य निभ्रंछनां करोति. ततो भीतोऽसौ गाढं तच्चरणयोर्मस्तकं विन्यस्य क्षमा याचितवान्. ततोऽभिहितमनया अथाराधयिष्यामि तानहं, यथा पुनः करि| व्यंति च तवोपरि ते प्रसादं. परं पुनरपि त्वममीषां परगृहपंडितानां लोकानां वचनानि चित्ते धारयिष्य| सि. ततस्तेनोक्तं नैतदिह जन्मनि भवति, किमेतावतापि न शिक्षितोऽहं ! इत्यादि वदन् स मुग्धस्तया / | कुलटया गाढं दृढीकृतः स्वविषये. ततः कृतोऽनया प्रवरबलिः, आनायितानि सुगंधिकुसुमानि, पूजिताः / / 57 //