________________ भुवन चरित्रं Sonal चिणि जनजिवन जिविलिन | णमर्दनं कुर्वन् वदत्यसो प्रिये ज्ञातं मया, तव मायामयमलोकं च न किंचित्प्रतिभाति, ततोऽद्यप्रभृति | | न किंचित्तथाविधमहं करिष्यामि, अन्यथा गोशीर्षश्रीखंडरसादप्यतिशीतलेन निजचरणप्रहारेण सुखयसि त्वमिति. ततस्तया चिंतितं दासोऽयं मम वराकः, तत्किमहं बहिर्धमामि ? गृहेऽप्यानयाम्यात्माभिरुचितं. ततो द्वितीयदिने रात्रौ गृहांगणे धृत्वा कंचित्तरुणपुरुषं भणितो भर्ता, स्वर्गादागतः पितणां सत्कः क व श्चिन्मनुष्यो द्वारि तिष्टति, स च मयैव सार्धं रहसि किंचिद्वक्तुमिच्छति, एतच्च भवंतमनापृच्छयाहं न / | करोमि, परगृहतप्तिवाहको हि लोकः, कल्येऽन्यत्किंचित्संभावयिष्यति, मत्स्वरूपं च यादृशं तत्वमेव / जानासि, तत्र किमन्येन बहुभाषितेन ? ततस्तेनोक्तं प्रिये नैवं वक्तुमर्हसि, किं त्वद्विषयेऽपि विकल्पः व कश्चित् ? नाहमन्यैः सदृशो यत्परभाषितानि चित्ते विधृत्य स्वगृहभंगं करोमि, तद्गच्छ त्वं ? शृणु यदेष | न तव भाषते, तथा च सन्माननीयोऽयं यथास्मासु पितरः सदाप्रसादा भवंति. ततो गता सा, क्रीडितं च | तेन सह स्वेच्छया. ततः कथितं च तया भत्रे, प्रथमं तावयूयमस्माकं भक्तिं न कुरुथेति दोषानुद्भाव्य | कदर्थिताहमित्थं तेन, ततः पश्चाद्भक्त्या विनयेन च तथा मया स परितोषितो यथा तव पितॄन् स | प्रसन्नान् करिष्यति, अन्यैश्च बहुभिः पितृप्रयोजनैः स इहायातस्तिष्टति. ततो मया निमंत्रितोऽस्ति स