SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भुवन // 49 // Doमियम मिणि मि मिNिAME किन ज वल्लभजगद्गोरव्यमहासाम्राज्यदायिप्रवरलक्षणान्विते निःशेषसोख्यास्थानकल्पे समग्रगुणसर्वस्वश्रीगृहापव-18 चरित्र नरके देशविरतिसर्वविरतिनामके दास्यति तुष्टस्तव क्रमेण निजपुत्रिके. ते च दुराराध्येऽतिनिपुणजनरंज नीये, सर्वथा तच्चित्तकालुष्यमजनयन् सेवमानस्त्वं सुखपरंपरामनुभवन् क्रमेण प्राप्स्यसि परमैश्वर्यमयं| निःसीमानंतसुखसंपन्नमप्रतिपातिसकललोकत्रैलोक्योपरिवर्तिनिवृत्तिपुरोपरमेश्वरत्वमिति. तदेतत्सम्यक् | श्रुत्वा प्रतिपद्य च क्षणात्कृतान्यक्षयोपशमिकसम्यक्त्वस्य सेवको भूत्वा प्रहृष्टमनाः प्रणम्य गुरुचरणौ | जगाम स्वगृहं सपरिकरो विश्वसेनकुमारः. ततोऽसौ स्मरंस्तानि गुरुवचनानि, कुर्वश्च तदुपदिष्टविधिना सम्यग्दर्शनसेवया गमयति दिवसान्, ततः कर्मपरिणामेन चिंतितमहो निर्वाहितप्रायमेवानेन प्रतिज्ञातं, | विगतप्रायचिंतश्चाहं, यदयं मीलितः सम्यग्दर्शनस्येति. किंच यदि महांधवा गाढमस्मै कुपिण्यंति तथा| प्यपार्धपुद्गलपरावर्तमेवास्य संसारः, ततः परं त्वस्य प्रौढसहायतां विधाय निवृत्तिपुरीपरमेश्वरत्वलाभं | कारयिष्यामि. ततोऽन्यदा पितरि पंचत्वमुपगते संपन्नोऽसी महीपालः. पालयति राज्यं. अन्यदा व निरा| नंदं भग्नमत्सरं परिहृतप्रायव्यापार निरीक्ष्य खपक्षं प्रकुपितो गाढममर्ष परिवहन् मोहनरेंद्रज्येष्टपुत्रो रागकेसरी कुदृष्टिरागरूपमात्मनो विधाय पितरं च प्रणम्य निर्गतः स्वस्थानात्. प्राप्तो विश्वसेननरेंद्रसमी / / 49 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy