SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ भुवन // 25 // LalEELEHDEEOHIBIOMETERE प्रेषय तत्र, येन तं त्वदुहितृदासतामानीय गलग्राहं गृहोत्वा व्यावर्त्य दर्शयामि, भूरिशः प्रागनुभूतभूः || चरित्रं तेस्तस्य वराकस्य जानामि चाहं. प्रियतम ! यदेवं प्रागल्भेन नाहत्येव वक्तुं महिलाजनः, यत् स्त्रियो हि सविनया अल्पभाषिण्यः सलज्जाश्चैव शोभंते, धाष्टय तु तासां वचनीयतामेवावहति, परमतीवार्तिवशा व देव मयेवमभिहितं, अतः प्रसादो विधेयः, क्षमणीयं चैतन्मम सर्वमिति. ततो विहस्य प्राह मिथ्याद| र्शनः-हे प्रिये! महिलाप्रधान एव भवति मोहराजानुगतो लोकः, तेन न तस्यैतल्लज्जां संजनयति, न | तत्साधूक्तं त्वया, गच्छ त्वमेव तत्र? यथा च भव्यं भवति तथा कुर्विति. तया प्रोक्तं प्राणेश! नैवं, न | त्वदुदयमात्रभावे च मादृशां प्रागल्भ्यं. एतदभावे तु के वयं? तस्माद्भवद्भिरपि तत्रागंतव्यमेव. ततस्ते-न ज नोक्तमेवमेव. न हि वियुक्ताभ्यामावाभ्यां कदाचिदपि व्यापारणीय, अतस्तत्रागत्य तटस्थोऽहमपि द्रक्ष्याव मीत्यभिधाय गतः सकलत्रापत्यस्तत्र मिथ्यादर्शनः, प्रेषिताश्च तत्पृष्टतो मोहनृपेण सर्वापदो व्यसनानि | | धनपिपासा लाभांतरादयश्च. इतश्च प्रसूता श्रीनिलयनगरे धनतिलकवेष्टिनो गृहिणी, जातः पुत्रः, कृतानि वर्धापनमंगलानि, // 25 // | स्थापितं च तस्य वैश्रमण इति नाम. गतो वृद्धिं, अधीताः कलाः, प्राप्तश्च योवनं, ततो निजावसरं /
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy