________________ भुवन MEMEMBEDEO / त्यसाधारणसोभाग्यभूमिः प्रमदा? यत्कृतेऽमररमणीनामप्यभिलषणीयस्य भवतोऽप्येतावतो चिंता ! ततस्तेनोक्तं प्रिये ! केलिवचनमपि नेदृशं वक्तुमर्हसि, यतस्त्वां विहाय मम खप्नेऽपि नान्या मनस्यवव तिष्टति योषित्, कार्यांतरविषया त्वियं चिंता. तत् श्रुत्वा ससंभ्रमया तया भुवो समुक्षिप्य प्रोक्तं च स्वामिन् ! किं नाम तदेतत्कार्य ! यत्र लीलात्मवशीकृताशेषत्रिभुवनस्याप्यार्यपुत्रस्यैतावान् मनोव्याक्षेपः, | तत्कथ्यतां यदि ममापि कथनीयमिदं. ततोऽनेनोक्तं सुलोचने नैतावत्कालं मया तवाकथितं किंचिन्मुक्त, मगृहे हि विशेषकार्याणां सर्वेषामपि त्वमेव चिंताकी वर्तसे, ततः प्रस्तुतमपि श्रूयतां ? चारित्रधर्मस्य | | सहायतया प्रतिपन्नः संसारिजोवः कर्मपरिणामेन नोतस्तावत्सांप्रतं श्रीनिलयनगरवासिधनतिलकश्रेष्टीगृहे / न तद्विषये च कृता मया प्रभुपुरतो महती प्रतिज्ञा, सा च त्वयापि श्रुता भविष्यति. तया प्रोक्तमेवमेवैतत्. मिथ्यादर्शन उवाच परं कमलवदने! दर्घटं चैतत. यतः समारूढोऽस्ति द्वितीयपक्षे कर्मपरिणामः, न च वासितमद्यापि निबिडतयास्माभिस्तत्कुलं, निपुणाश्चास्मद्वासितान्यपि कुलानि विप्रतारयितुं प्रतिपक्षाः, | विशेषतश्च सोऽस्मत्प्रतिपंथी विशिष्टः सम्यग्दर्शनोऽस्ति, तस्य हि सेवनीया शक्राणामपि, प्रार्थनीया / | चक्रिणामपि, चित्तस्था च देवसन्मुनोनामपि, आकृष्टमानसा महीभुजामपि, अभिलषणीया परमविदुषा HERE DIEO ODIA SOCIDENT EDED / 22 //