________________ भुवन चरित्रं // 13 // aaaaaaaaaaaaaaaaaaaaaE व किंचिद्वेत्त्यसौ, भृतघटस्येव सर्वमपि पार्श्वत एव बजतीति सत्यीकृतं चानेन. स्वभावो नोपदेशेन / शक्यते कर्तुमन्यथा // सुतप्तान्यपि तोयानि / पुनर्गच्छंति शीततां // 1 // भवतु, तथापि स्वभुजबले. नैव कालोचितमनुतिष्टाम इति संचिंत्य समायाताश्चारित्रधर्मसैन्यभविष्यत्सहायभृतस्य तस्य संसारि| जीवस्य समीपे, प्रकुपिता मोहादयः, विधृतश्चायं तेष्वेव व्यवहारनिगोदेषु विचित्रानंतदुःखकोटिरनुभव| ननंतोत्सर्पिण्यवसर्पिणीर्यावत्. ततः कदाचित्तेषु किंचित्कथमपि विरलीभूतेषु मोहादिष्ववसरमुपलभ्यान नीतः कर्मपरिणामेनासो निगोदजीवः पृथिवीकायकेषु. तत्रापि दुःखलक्षाण्युपदर्शयद्भिः सरोषैमोहादिभिः | व कदर्थितः सोऽसंख्येयोत्सर्पिण्यवसर्पिणीर्यावत्. ततश्चांतरं किंचिदुपलभ्यानीतोऽयं कर्मपरिणामेनाप्कायिन - केषु, तेभ्योऽपि तेजःकायिकेषु, एतेभ्यो वायुषु च. तेष्वपि प्रत्येकं तैमोंहादिप्रतिपंथिभिः प्रकुपितैर्नाना| दुःखोपदर्शनपूर्व कदर्थितोऽसंख्येयोत्सर्पिण्यवसर्पिणीर्यावत्. ततो निरुद्धोऽसौ सप्ततिसागरोपमकोटिर्यावत् | / प्रत्येकतरुषु, इह चांतरांतरातिप्रकुपितेस्तैर्दुष्टेमोंहादिभिरसौ वराकः संसारिजीवः कदर्थितः. पुनः पुनः | 9 पराङ्मुखोऽसो व्यावृत्य व्यवहारिनिगोदपृथ्व्यादिषु नीत्वा तथैव तैः कदार्थतस्तावद्यावदेकेंद्रियेषु पुनः | | पुनर्निरुष्ट्यासंख्येयान् पुद्गलपरावर्तान्. तत एतावतः कालात् किंचिदंतरमुपलभ्य नीतोऽसौ कर्मपरिणा // 13 //