________________ नक्ता 61 // विशेषणानि परदर्शनिषु तत्तद्देवाभिधानत्वेन प्रसिहानीति तर्कापोहः. स्वबुध्यात्र प्रामाणिकैः प्रमा णकोटि प्रमाणीयः, इति वृत्तार्थः // 24 // किं च- // मूलम् ॥-बुधस्त्वमेव विबुधार्चितबुध्बिोधात् / त्वं शंकरोऽसि जुवनत्रयशंकरत्वात // घा. तासि धीर शिवमार्गविधेर्विधानाद् / व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि // 25 // व्याख्या-हे वि बुधार्चित ! शक्रमहित ! बुधः सप्तानामन्यतमः सुगतस्त्वमेव, कस्मात् ? पदार्थेषु बुधिबोधात मतिप्र. काशात्, यतो 'बुधिर्भवति बोकेषु.' अथ सत्यार्थो बुद्धस्त्वमेव धर्मबुद्धिप्रकटनात. वा विबुधा वि. शिष्टपंडिता गणधरास्तैर्चितस्तीर्थकरस्तस्य बुधिः केवलज्ञान, तया बोधो वस्तुस्तोमस्य परिवेदस्तस्मा. विबुधार्चितबुधिबोधात् त्वमेव बुझो झाततत्वो नवसि. यतो बुधस्तु स्वमांसदानेन वृया कृपाबुरि. ति. हे देव! शं सुखं करोतीति शंकरः, स यथार्थनामा त्वमसि, जुवनत्रयशंकरत्वात्, त्रिलोकीसुख. कारित्वात् . स शंकरस्तु रुद्रः कपाली नमो जैरवः संहारकन्न शंकरः. हे धीर! दधातीति धाता स्रष्टा त्वमेव कृतार्थनामा, शिवमार्गविधे रत्नत्रयरूपनियोगस्य विधानात करणात् . स ब्रह्मा तु जडो वेदो | पदेशान्नरकपथमुदजीघटत् . हे जगवन् ! व्यक्तं प्रकटं पुरुषोत्तमस्त्वमेवासि, प्रकृष्टपुरुषेषूत्तमोऽसि.