________________ श्री सदैववत्स चरित्रम् तेन दास्ये भवद्भयो यद् देयमस्ति श्वरेव तत् // तच्छत्वा कथयामासुः श्रेष्ठिनं प्रति ते वचः // 94 // श्रेष्टिन् वयं तु पांथाः स्मःश्वः कस्य त्वं च दास्यसि॥ ज्ञायते नैव चास्माकं कुत्र वासो भविष्यति॥१५॥ मागें गढद्भि रस्माभि रेतत्कार्य कृतं तव // अस्मभ्यं देहि तत्सर्व त्वयोक्तं च ततोऽधुना // 96 // श्रेष्ठिनोक्तं बलात्काराद् यूयं चेत्तद्ग्रहीष्यथ // तदाधुना गृहतिं तदित्येवं कलहोऽजनि // 9 // दुर्बलानामनाथानां महाकलहकारिणाम् // उपद्रुतानां स्तेनाद्यैः सर्वेषां पार्थिवो गतिः 98 // विचार्येति ततः श्रेष्ठी गतः पावें महीपतेः // मृतकज्वालनं सर्व कथयामास भूपतिम् // 99 // / अपरं च महाराज बहुभिर्जालनं कृतम् // आगच्छति परत्वेव पिता पुनः पुनर्गहे / / 1200 // एतैश्च ज्वालनं तस्य कृतमद्यैव भूपते // द्रव्यमयैव तदेयं कन्यादि मार्गयंति च // 1 // कथयामि च तेभ्योऽहं यत् कल्ये चेत् पुनर्नहि // आगमिष्यति युष्मभ्यं देयं दास्ये ह्यहं तदा // 2 // अथ श्रेष्ठिवचः श्रुत्वा भूपतिः प्राह तान् प्रति // युक्तमेवास्ति भोःपान्थाः श्रेष्ठिना कथितं वचः॥३॥ कुमारः प्राह हे राजन्नाहं पूर्वसमः खलु // राज्ञोक्तं तर्हि भो मंत्रिन् नवं किं ज्वालने तव // 4 // स आह हे महाराज प्रकारोऽपूर्व एव मे // राझोक्तं तर्हि वृत्तांतं सविस्तरं निवेदय // 5 //