SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ शेखरा व्यजिज्ञपत् स्वामिन्महदाश्चर्य कृत, प्रकाशय निजखरूपं? तदैव रक्षेण प्रत्यक्षीभूय सर्वमपि रणसिंह रणसिंहकुमारचरितं निरूपितं. तत् श्रुत्वा कनकशेखरोऽतीवहष्टो, महताडंबरेण च पुत्री विवाहिता. सर्वानपि राज- | चरित्रम् न्यान् परिधापनिकापूर्वकं स बहु सन्मान्यामास, ततस्ते सर्वेऽपि स्वदेशं जग्मुः, पश्चात्कनकशेखरेण जामातुरेकदेश-al राज्यं समर्पित, तत्र स्थितः कनकवत्या सार्द्ध विषयसुखमनुभवन् स सुंदरकौटुम्बिकं समाकार्य उचितराज्यकार्याकधिकारिणं चकार. एतस्मिन्नवसरे सोमानाम्न्यां महापुर्या पुरुषोत्तमनामा नृपतद्गृहे चरत्नवती पुत्री वर्तते,साच कन कशेखरनृपभगिनीसुता, तया सर्वमपि कनकवतीपाणिग्रहणखरूपं ज्ञातं, रणसिंहं विनाऽन्यवरणे च नियमो गृहीतः, एतादृशं सुतामनो ज्ञात्वा पुरुषोत्तमराज्ञा स्वकीयप्रधानपुरुषा रणसिंहमाकारयितुं प्रेषिताः, तैरपि तत्र गत्वा तथैवोक्तं. रणसिंहेनोक्तं सर्वमपीदं कनकशेखरो जानाति, नाहं किमपि वेद्मीति प्रधानपुरुषैः कनकशेखरनृपाग्रे कथितं. तदा ककनकशेखरेण चिन्तितं, एतत्सत्यं यदियं रमवती मम भागिनेया, तदस्या अपि विवाहो मम कक्षु युक्त एवेति रणसिंह माकार्य स प्रोवाच गम्यतां रत्नवतीपाणिग्रहणार्थ, तेनापि तत्प्रतिपन्नं.महता परिवारेण रणसिंहोऽपि रत्नवतीपरिणयनाकर्थ चलितः मार्गे गच्छन्नेकदा पाडलीखण्डपुरसमीपोपवने चिन्तामणियक्षायतनसमीपे समागत्य स्थितः, यक्षप्रासादम ध्ये यक्षाय प्रणामं कृत्वा स्थितः, तदवसरे रणसिंहकुमारस्य दक्षिणं चक्षुः स्फुरितं, तदा स मनसि व्यचिन्तयत् अथ o कोऽपीष्टमेलापको भविष्यतीति. तस्मिन्नवसरे पाडलीखण्डपुराधिपस्य कमलसेननृपस्य' कमलिनीकुक्षिसमुद्भवा कम लवतीसुता सुगन्धपुष्पादिपूजोपकरणान्यादाय सुमंगलादासीसहिता यक्षप्रासादे समागता, आगत्य रणसिंहकुमारं eeeeeeeeeeeESE
SR No.600416
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages30
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy