________________ चरित्रम् // 5 // कणीष्व वरं, रणसिंहेनोक्तं स्वामिन्स्त्वदीयदर्शनेन मम नवनिधयः सम्पन्नाः, कापि न्यूनता नास्ति. तथापि मम राज्य रणसिंह समर्पय? यक्षः कथयति इतः सप्तमे दिवसे तव राज्यप्राप्तिर्भविष्यति. परं त्वया कनकपुरनगरे कनकशेखरराज्ञः क- नकमालाराज्ञीसमुदभूतकनकवतीनाम्न्या राजपुत्र्याः स्वयंवरो भविष्यति तत्र गंतव्यं, अग्रे च यत्तवाश्चये दर्शयामि तदर्शनीयं, अथ पुनरपि यदा तव कार्यमापतति तदा मम स्मरणं विधेयमित्युक्त्वा यक्षोंतर्भूतः. पश्चाद्र*णसिंहकुमारोऽपि लघुवत्सको हले योजयित्वा तदुपरि च स्वयं स्थित्वा कनकपुरमागतः, तत्र पूर्वमनेके राजकुमारा मिलिताः सन्ति, तत्र गत्वा स्वयमपि दूरे स्थितः, एतदवसरे कनकवती षोशशृंगारोपशोभिता रणनपुरकङ्ककणा ब*हुचेटीपरिवृता खयंवरमागता. उभयतः स्थितान् राजन्यानवलोकयन्ती सर्वानप्यनिच्छती यत्र रणसिंहो हलं मुक्त्वा हालिकवेषेण स्थितोऽस्ति तत्रागत्य तत्कण्ठे वरमालामारोपयामास. तद् दृष्ट्वा सर्वेषामपि चेतांसि कषायकलुषितानि * संजातानि. आगल सर्वेऽपि कनकशेखरस्योपालंभ दत्तवन्तः, राजन् यदि तव हालिकस्य पुत्रीसमर्पणेच्छासीत् त दा कथं वयमाकार्य हेपिताः, कनकशेखरेणोक्तं नाय ममात्राऽपराधः, यत्रेच्छया पुत्री वरं वृणीते तत्र किमयुक्तं? एका तत् श्रुत्वा सर्वेऽपि कुपितास्ताम्रवदना उदायुधा रणसिंहमुपवेष्टयामासुः, कथितं च तैः रे रंक त्वं कोऽसि ? किं तव b/ कुलं? रणसिंहेनोक्तं अधुना कुलकथनप्रस्तावो नास्ति, यद्यपि कथयामि तथापि भवतां विश्वासो मायाति. ततः संकी ग्रामकरणेन मम कुलपरीक्षा भविष्यति. इति श्रुत्वा सर्वेऽपि योध्धुं सज्जीभूताः, रणसिंहोऽपि हलमादाय धावतिस्म, परस्परं युद्धे जायमाने देवप्रभावेण हलप्रहारावर्जरीभूता नष्टाश्च सर्वेपि राजानः, तद् दृष्ट्वा चमत्कृतांतःकरणः कनक CEREMOREBEBECelet