________________ चरित्रम् // 22 // लुब्धे / सरलं यस्य मनः सतां स धुर्यः // 1 // इति विचित्ल कमलवल्या कुमारपाद्ये वरो मागितः, कुमारेणोक्तं यदी प्सितं तदवृणु ? कमलवती प्रोवाच यदीप्सितमर्पयथ तदा रत्नवलामपि मयीव सरनेहा भवथ ? यदप्यनयाऽपराधः रणसिह कृतस्तथापि क्षतव्यमेव. यतो यूयमुत्तमकुलसमुद्भवाः, न घटते चैतत्कुलीनानां बहुकालक्रोधरक्षणं. यदुवतं-न भवति // 22 // भवति च न चिरं / भवति चिरं चेत्फले विसंवदति // कोपः सत्पुरुषाणां / तुल्यः रनेहेननीचानां // 1 // स्त्रीणां * हृदयं तु प्रायो निर्दयं भवति, यदुक्तं-अनृत्तं साहसं माया / मूर्खत्वमतिलोभता // अशौच निर्दयत्वं च / स्त्रीणां दोषाः स्वभावजाः॥१॥ स्वकार्यतत्परा सती नीचमप्याचरते, इत्थं कमलवतीकथनतो रत्नवत्यपि कुमारेण सन्मा- In |निता. अथ स कियदिनानि तत्र स्थित्वा पुरुषोत्तमनृपाज्ञामादाय कनकपुरंप्रति चलितः, पित्रा बहुदासीदासालंकृति| वस्त्रादि समर्पयित्वा स्वपुत्री संप्रेषिता. कुमारस्यापि यहहस्त्यश्वरथपदातिस्वर्णमुक्ताफलादि समर्पित. रणसिंहो रत्नक वतीमादाय कमलवत्या साई शुभदिवसे चलितः, पाडलीखंडपुरसमीपं चागतः, तत्र ज्ञातसकलपुत्रीस्वरूपेण कमल सेनराज्ञा सन्मुखमागत्य समहोत्सवं जामाता गृहमानीतः, कमलवती बहु सन्मानिता प्रशंसिता च पुरलोकैः, जनन्यापि सस्नेहमालिंगिता स्वपुत्री. बहुदिनानि तत्र स्थित्वा कुमारः कनकपुरंप्रति चलितः, कनकशेखरोऽपि कुमारागमन का श्रुत्वा सानंदः सन्मुखमागतः, स विस्मयं मिलितः कुमारो नगरप्रवेश कारितः, तदवसरे बहवो लोकाः पौरस्त्रियो निरीक्षितुमागताः सानंदाः परस्परमेवं वदंति पश्यतैनां कमलवती या शीलप्रभावेण यमसमीपं गतापि यममुखे धुलिं दत्वा पुनरत्रागता, यदगुणरंजितो रणसिंहोऽपि मरणमंगीकृतवान्. धन्येयं सतीमुख्या कमलवतीति प्रशंसा 三三三三三三三三三三三段 中部444444444