SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ अवंती भद्रात्मजः सोऽवतीसुकुमालो निजालये द्वात्रिंशल्ललनाभिः समं विविधप्रकारान् विलासभोगान् भुंजान उन्निद्रो गुरुवरैर्गुण्यमानं तन्नलिनीगुल्माध्ययन गठमशृगोत. तत श्रुत्वा स लघुकर्मा निजचेतसीति दध्यो, | অনন্ত किमिदं गुरुभिः पव्यमानवर्णनं नलिनीगुल्मविमानं मया क्वापि विलोकितमस्ति ? एवं पुनः पुनरुहापोहपरः सोऽवंतीसुकुमालो जातिस्मरणज्ञानमवाप्तवान्. तेन ज्ञानेन च तेनेति ज्ञातं, यत्पूर्वस्मिन् भवेऽहं नलिनीगुल्मविमाने देवोऽभवं, तत्र विमाने च मया यानि सुखानि विलसितानि, तेषां सुखानामग्रे मयेह 4 भुज्यमानमिदं सुखं न किंचिदपि. तत्सुखेतत्सुखयोमेरुसर्षपयोरिवांतरं विद्यते. यतः-देवस्स देवलोए / जं सुहं तं नरो सुभणिओवि // न भणइ वाससएणवि / जस्सवि जीहासयं हुजं // 1 // इति विमृश्य सोऽवंतीसुकुमालो नलिनीगुल्मविमानसुखलाभोत्सुकस्तासां विलासवतीनामपि निजस्त्रोणां भोगविलासांस्तुणवत्त्यक्त्वा विरक्तीभूय गुरुपाचें गमनोत्सुको जातः, निजमनसि च स एवं मन्यतेस्म, यथा-दाराः परभवकारा | बंधुजनो बंधनं विषं विषयाः // कोऽयं जनस्य मोहो / ये रिपवस्तेषु सुहृदाशाः // 1 // त्यक्तेऽपि वित्ते दमितेऽपि चित्ते / ज्ञातेऽपि तत्वे गलिते ममत्वे // दुःवैकगेहे विदिते च देहे / तथापि
SR No.600408
Book TitleAvantisukumal Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy