________________ बालकहा सिरिसिरि // 164 // पवहणसिरीसमेओ असंखचउरंगसिन्नपरिकरिओ। चल्लइ सिरिपालनिवो निअजणणीपायनमणत्थं // 900 // सोवि हु आगच्छतो ठाणे ठाणे नरिंदविंदेहिं / बहुविहभिट्टणएहिं भिहिजइ लद्धमाणेहिं // 901 // सोपारयंमि नयरे संपत्तो तत्थ परिसरमहीए / आवासिओ ससिन्नो सो सिरिपालो महीपालो // 902 // करेषु-हस्तेषु येषां ते तैस्तथोक्तैः / / 899 // प्रवहणानां-यानपात्राणां या श्रीः-लक्ष्मीस्तया समेतः-सहितः पुनर्न 81 विद्यते सङ्ख्या यस्य तत् असङ्ख्यं यच्चतुरङ्ग-हस्त्यश्वरथपत्तिरूपं-सैन्यं तेन परिकरित:-परिवृतः परिकलित इति पाठान्तरं तेन युक्त इत्यर्थः, ईदृशः श्रीपालनृपो निजजनन्याः-स्वमातुः पादयोः-चरणयोर्नमनार्थ चलतिगच्छति // 900 // हु इति पादपूरणे स-श्रीपालोऽपि आगच्छन् स्थाने स्थाने नरेन्द्रवृन्दैः-नृपसमूहैर्बहुविधैः-अनेकप्रकारैः 'भिट्टणएहि' ति दौकनैः 'भिट्टिाइ' त्ति दौक्यते, कीदृशैर्नरेन्द्र वृन्दैः - लब्धमानैः लब्धो मानः-सन्मानो यस्ते तैः // 901 // धावं--चलन् क्रमेण सोपारके नगरे सम्प्राप्तस्तत्र 'परिसरमहीए' त्ति पुरपार्श्ववर्तिभूमौ स ९००–९०१-स्पष्टे / ९०२-अत्र ‘सिरिपालो महीपालो' इत्यत्र वृत्त्यनुप्रासः / . // 164 //