________________ तत्तो माउलयनिवो अणेगनरनाहसंजुओ कुमरं। सिरिसिरिपालं थप्पइ रज्जे अभिसेअविहिपुब्वं // 897 // सिंहासण निविट्ठो वरहारकिरीडकुंडलाहरणो। वरचमरछत्तपमुहेहिं रायचिन्हेहिं कयसोहो / / 898 // सिरिसिरिपालो राया नरवरसामंतमंतिपमुहेहिं / पणमिज्जइ बहुहयगयमणिमुत्तियपाहुडकरेहिं // 899 // अभिषेकविधिपूर्व राज्ये स्थापयति, अभिषेको-राज्याभिषेकस्तस्य यो विधिः तत्पूर्वकमित्यर्थः // 897 / / . अथ राज्याभिषेकानन्तरं यादृशो राजा जातस्तादृशमाह-सिंहासने निविष्टः,-उपविष्टः, पुनर्वराणि-प्रधानानि हारकिरीटकुण्डलाभरणानि यस्य सः, किरीटं-मुकुटं, पुनः वरचामरच्छत्रप्रमुखे राजचिन्हैः कृता शोभा यस्य स तथोक्तः // 898 // एवम्भूतः श्रीश्रीपालो राजा नरवरसामन्तमन्त्रिप्रमुखैः प्रणम्यते-नमस्क्रियते, कीदृशैः नरवरायः ?बहवो हया-अश्वा गजा-हस्तिनो मणयो-वैडूर्याद्या मौक्तिकानि-मुक्ताफलानि तान्येव प्राभूतानि ठौकितानि ८९७-छेकानुप्रासः। ८९८-स्पष्टम् / ८९९-छेकानुप्रासः /