________________ सोऊण तं पसिद्धिं समागयाणेगपंडिया पुरिसा / पूरंति समस्साओ परं न तीए मणगयाओ॥ 852 // एव सा निवधूया सुपंडियाइहिं पंचहिं सहीहिं। सहिया चित्तपरिक्खं कुणमाणा वट्टइ जणाणं // 853 // तं सोऊणं सव्वो सहाजणो भणइ केरिसं चुज्जं / पूरिज्जति समस्सा किं केणवि परमणगयाओ? // 854 // तां प्रसिद्धिं श्रुत्वाऽनेके पण्डिताः पुरुषाः समागता सन्तः समस्याःपूरयन्ति, परं-केवलं तस्याः कन्यायाः मनोगताः समस्याः न पूरयन्ति // 852 // एवममुना प्रकारेण सा नृपपुत्री सुष्टु शोभनाभिः पंडितादिभिः पञ्चभिः सखीभिः सहिता लोकानां-जनानां चित्तपरीक्षां कुर्वाणा वर्त्तते // 853 // तद्वचनं श्रुत्वा सर्बोऽपि सभाजन:-सभावर्तिलोको भणति, कीदृशं चोद्यं-आश्चर्यमस्ति :, कि परस्य मनोगताः समस्याः केनापि पूर्यन्ते // 854 // ८५२--देवी शक्तिमन्तरेण मनोमतसमस्यापूरणमतिदुष्करमिति भावः / ८५३--अत्र प्रथमार्दै 'हिं' इत्यस्य त्रिधोपादानावनुप्रासोऽलङ्कारः / ८५५--परमनोगतसमस्याया अपूरणीयता व्यज्यते /