SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना महामहिम्नोऽप्रतिचक्रस्य श्रीसिद्धचक्रस्य त्रिधाऽऽराधनतः सम्पादिताऽऽश्चर्यकरसुखसौभाग्यसम्पतेरत्यन्तदुस्तरकिलासरोगसमुद्रसमुत्तीर्णस्य श्रीश्रीपालमहाराजस्य, पूर्वापार्जितशुभाऽशुभकर्मत एव सुखदुःखाऽनुभविन: प्राणिनोऽन्ये तु निमित्तमात्रमिति पित्रा पृष्ठाया जिनेन्द्रागममर्मज्ञायाः पर्षदि पर्जन्यवद्गभीरया गिरा स्पष्टसम्भापिच्या मदनसुन्दर्याश्च चरित्रभिदं श्रीश्रीपालचरित्रम् / . अनयोः परमपवित्रनामधेययो दम्पत्योश्चरित्रस्य श्रवणेन चैत्राश्विन्योरष्टाहिकायां श्रीनवपदीनामाराधनं: श्रीश्रीपालवत् त्रिधा कुर्वन्तो भव्या उत्तरोत्तरमपवर्गसुखभाजो भवेयुरिति श्रीमदत्नशेखरसूरयः प्राकृतभाषायां है वैक्रमीयचतुर्दशशतकोत्तराऽष्टाविंशतितमे वर्षे चरित्रमिदं रचितवन्तः। श्रीरत्नशेखरमरीणां गुरवः श्रीहेमतिलकसूरयः, तेषाश्च श्रीवज्रसेनसूरय आसन् / अमीषाश्च सम्मानं "पातिशाह अल्लाउद्दीन" इत्यनेन "फरमान" दानपूर्वकं कृतमिति, " जैनग्रन्थावल्या" मयं प्रसङ्गो "वेवर" इत्यस्योक्तितया सगृहीतः /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy