________________ एवं वदन्नेव स सिद्धचक्रा-धिष्ठायकः श्रीविमलेशदेवः / कुमारकण्ठे विनिवेश्य हारं, जगाम धामाद्भतमात्मधाम // 775 // तं लध्धूण कुमारो निचिंतो सुत्तओ अह पभाए / उलुतोऽवि हु कुंडलपुरगमणं निअमणे कुणइ // 776 / / हारपभावणं कयवामणरुवो गओ पुरे तत्थ / पासइ वीणाहत्थे रायकुमारे ससिंगारे // 777 // स सिद्धचक्रस्याधिष्ठायकः श्रीविमलेशदेवो-विमलेश्वरनामा सुरः एवम्-उक्तप्रकारेण वदन-ब्रुवन् एव कुमारस्य कण्ठे हारं विनिवेश्य-स्थापयित्वा आत्मनः-स्वस्य धाम-गृह स्वर्गमित्यर्थः जगाम-गतवान्, कीशमात्मधाम ?-धाम्ना-तेजसाऽद्भुतं धामाद्भुतम् // 775 // कुमारस्तं हारं लब्ध्वा निश्चिन्तः-चिन्तारहितः सुप्तः, अथ प्रभाते उत्तिष्ठन्नेव निजमनसि-स्वचित्ते कुण्डलपुरगमनं करोति // 776 // हारप्रभावेण कृतं वामनरूपं येन स एवंविधः कुमारस्तत्र पुरे गतः सन् वीणा हस्तेषु येषां ते वीणाहस्तास्तान् पुनः सह शृङ्गारेण वर्त्तन्ते ७७५-अत्र धामाद्भुतम् इत्यत्र धामशब्दस्य तेजोऽर्थः, आत्मधामेत्यत्र पुन ग्रुहरूपोऽर्थोऽवसेयः तथा च विश्व: "धामशक्तो प्रभावे च तेजोमन्दिर जन्मसु" इति / ७७६-कुमारस्य निश्चिन्तस्वापे तादशहारलाभस्थ कारणतयोपन्यासात् काव्यलिजमलङ्कारः / ७७७-अत्र "कुमारे ससिगारे" इत्यत्रानुप्रासोऽङ्कारः।