________________ सिरिसिरि // 142 // वालकहा सोहम्मकप्पवासी देवो विमलेसरो समणुपत्तो। करकलिउत्तमहारो कुमरं पई जंपए एवं // 773 // इच्छाकृतियोमगतिः कलासु, प्रौढिर्जयः सर्वविषापहारः। कण्ठस्थित यत्र भवत्यवश्यं कुमार ! हारं तममुं गृहाण // 774 // सौधर्माख्यदेवलोकनिवासी विमलेश्वरो नाम देवः समनुप्राप्तः, तत्र सम्प्राप्तः, सन् कुमारं प्रति एवंवक्ष्यमाणप्रकारेण जल्पति-वक्ति, कीदृशो देवः ?-करे-हस्ते कलितः-प्राप्तः उत्तमः-प्रधानो हारो यस्य स एवंविधः // 773 // एवं कथमित्याह-हे कुमार ! त्वं अमुं हारं गृहाण, तं कं इत्याह-यत्र-यस्मिन् हारे कण्ठे स्थिते सति अवश्यं-निश्चयेन एतानि पञ्च कार्याणि भवन्ति, तथाहि-इच्छया आकृतिः इच्छाकृतिः, यादृशी इच्छा भवेत् तादृशो देहाकारो भवेत् 1 तथा व्योम्नि-आकाशे गतिः-गमन-व्योमगतिः 2 तथा कलासु सर्वास्वपि प्रौढि:प्रागल्भ्यं निपुणत्वमितियावत् 3 तथा जयः-शत्रूणां पराजयप्रापणम् 4 तथा सर्वेषां विषाणमपहारः-अपहरणं सर्वविषापहारः 5 // 774 / / ७७३-स्पष्टम् / ७४–पञ्चविशिष्टफल कहाराधिगमात् नवपदध्यानास्य प्रभावातिशयोऽमिव्यजितः। // 142 //