________________ अन्नदिणे सो पुणरवि राया मिगयागओ नि सिन्न। मुत्तूण हरिणपुट्ठीइ धाविओ इक्कगो चेव // 1120 // नइतडवणे निलुको सो हरिणो नरवरो तओ चुक्को। जा पिच्छइ ता पासइ नइउवकंठे ठिअं साहुं // 1121 // तं दट्ठणं पावेण तेण तह पिल्लिओ मुणिवरिंदो। सहसत्ति जहा पडिओ नईजले तो पुणो तेण // 1122 // अन्यस्मिन्दिने स-राजा पुनरपि मृगयायां गतो निज सैन्यं मुक्त्वा- त्यक्त्वा एकाकी एव हरिणस्य पृष्ठौ धावितः // 1120 // स हरिणो नद्यास्तटे यद्वनं तत्र 'निलुक्को'-त्ति घनवृक्षाद्याच्छादितत्वाददृश्यां गतस्तदा नरवरोराजा ततो मृगाच्च्युतः सन् यावत्प्रेक्षते-विलोकयति तावन्नद्या उपकण्ठे-समीपे स्थितं साधु पश्यति // 1121 // तं साधुं दृष्ट्वा तेन पापेन क्रूरेण राज्ञा तथा-तेन प्रकारेण कराभ्यां प्रेरितो यथा मुनिवरेन्द्रः सहसेतिअकस्मात् नदीजले पतितः तदनन्तरम् // 1122 // पुनस्तेन राज्ञा सञ्जातः-समुत्पन्नः किमपि करुणाभावो ११२०-हरिणमनुसरतो राक्षः सेनात्यागोऽनायत्यापि भवत्येवेतिभावः। ११२१-स्पष्टम् / २१२२-मुनिम् मृगयाविरोधिनमवमत्य क्रोधान्नष्टविवेकस्य कार्यमिदं सम्भाव्यते /