________________ वालकदा सिरिसिरि // 196 // तवो इच्छानिरोहो अ, दया जीवाण पालणं / सच्चं वक्कमसावज्जं, सोयं निम्मलचित्तया // 1088 // बभमट्ठारभअस्स, मेहणस्स विवज्जणं / / अकिंचणं न मे कजं, केणावित्थित्तिणीहया // 1089 // एसो दसविहोद्देसो, धम्मो कप्पदुमोवमो। जीवाणं पुण्णपुण्णाणं, सव्वसुक्खाण दायगो // 1090 // इच्छाया निरोधश्च तप उच्यते५ जीवानां पालनं रक्षणं दया उच्यते६ असावा-निर्दोष वाक्यं सत्यमुच्यते७ निर्मलचित्तता शौचमुच्यते८ // 1088 // अष्टादशभेदस्य मैथुनस्य विवर्जनं ब्रह्म उच्यते, तत्र औदारिकवैक्रियभेदाद् द्विविधं मैथुन, तदेकैकमपि मनोवाक्कायैः करणकारणानुमतिभेदान्नवविधं, द्वयोमिलने अष्टादशविधमिति९, केनापि वस्तुना मम कार्य न-नास्ति इत्येवं याऽनीहता-निःस्पृहता तत् आकिश्चन्यमुच्यते१०॥१०८९॥ दशविधा-दशप्रकारा उद्देशा-अवयवा नामोच्चारणानि वा यस्य स तथाभूत एष धर्मः कल्पद्रुमोपमःकल्पवृक्षसदृशः पूर्णपुण्येभ्यो जीवेभ्यः सर्वसौख्यानां दायकोऽस्ति, पूर्ण पुण्यं येषां ते पूर्णपुण्यास्तेभ्यः, कल्पवृक्षा १०८८-१०८९-स्पष्टे / १०९०-अत्र दशविधोद्देशस्य धमस्य कल्पद्रुमसादृश्यवर्णनात् उपमालङ्कारः। उत्तरार्द्ध पुनः छेकवृत्त्यनुप्रासालङ्कारौ / ***RASIA ROC0