________________ FEATURES जायाए तत्तसद्धाए, तत्तबोहो सुदुल्लहो ! जं आसन्नसिवा केई, तत्तं बुज्झंति जंतुणो॥ 1085 // तत्तं दसविहो धम्मो, खंती मद्दव अज्जवं / मुत्ती तवो दया सचं, सोयं वंभमकिंचणं // 1086 // खतीनाममकोहत्तं, मद्दवं माणवजणं / अज्जवं सरलो भावो, मुत्ती निग्गथया दुहा // 1087 // तत्वश्रद्धायां तत्त्वप्रतीतौ जातायामपि तत्त्वबोधः-तत्त्वज्ञानं सुदुर्लभः, यद्-यस्मात्कारणात्केचित् आसन्नं निकट शिव-मुक्तिर्येषां ते आसन्न शिवा एव जन्तवो-जीवाः तत्त्वं बुध्यन्ते, न सर्वेऽपीत्यर्थः॥१०८५॥ तत्त्वं किमित्याह-तत्वं दशविधो धर्मस्तथाहि-क्षान्तिः१ मादवं२ आर्जवं३ मुक्तिः४ तपः५ दया६ सत्यं७ द शौचं८ ब्रह्म९ आकिञ्चन्य१० // 1086 // / अथैषामर्थानाह-क्षान्ति म अक्रोधत्व-क्रोधाभावः१ मार्दवं-मानवर्जनम् 2 आर्जवम्-सरलो भावःअभिप्रायः३ मुक्तिर्द्विधा निर्ग्रन्थता-निर्लोभता, द्रव्यतो भावतश्च परिग्रहरहितत्वमित्यर्थः४ // 1087 // १०८५-तत्त्वश्रद्धायां जातायामपि तत्त्वबोधस्य सुदुर्लभत्वे उत्तरार्द्धप्रतिपाद्यस्य आसन्नमुक्तीनां केषाञ्चिदेव जन्तूनां तत्त्वावबोधाधिगमस्य हेतुतया कथनात् काव्यलिङ्गम् / 1086-1087 –स्पष्टे /