________________ *****KAKARI गुत्तदोहेग कित्तीन सइ नीई अ रायदोहेण / बालदोहेण सुगइ हहा मए तं तिगपि कयं / / 1047 // कत्थस्थि मज्झ ठाणं नरयं मुत्तूण पावचरिअस्स। ता पावघायणत्यं पव्वज संपवजामि // 1048 // एवं च तस्स चिंतंतयस्स सुहभावभाविअमणस्स / पावरासीहिं भिन्न दिन्नं विवरं च कम्मेहिं // 1049 // पुनः चिन्तयति. गोवद्रोहेण कीर्तिनश्यति, राजद्रोहेण च नीतिः-न्यायमार्गो नश्यति, तथा बालद्रोहेण सुगतिः-देवगत्यादिका नश्यति, हहा इति खेदे मया एतत्रिकमपि कृतम् // 1047 // पापचरितस्यइदृक्पापाचारस्य मम नरकं मुक्त्वा-नरकं विना कुत्र स्थानमस्ति ?, तत्-तस्मात्कारणात् पापस्य घातनार्थविनाशनार्थ प्रवज्यां-जैनी दीक्षां सम्प्रपद्ये-अङ्गीकुर्वे // 1048 // एवम्-अनन्तरोक्तप्रकारेण चिन्तयतोऽत एव शुभभावेन-शुभपरिणामेन भावित-वासितं मनो यस्य स तस्य, तथाभूतस्य तस्य राज्ञः पापराशिभिःपापसमूहैमिन्न-विदीर्ण च पुनः कर्मभिर्विवरं दत्तम् // 1049 // ततः-तदनन्तरं स्मृतं पूर्वजन्म-पूर्वभवो येन १०४७–अत्र गुरुद्रोह-राजद्रोह-बालद्रोहेषु प्रत्येकमप्यनाय मया पुन विहितस्य तत्त्रितयस्य का कथेति काव्यापत्तिरलङ्कारो व्यज्यते /