________________ सिरिसिरि वालकहा. जइ कहवि गव्यपवयमारूढो नो करेसि तस्साणं / तो होही जुज्झसज्जो कज्जपयं इत्तिअंचव // 1011 // त सोऊणं सो अजिअसेणरायावि एरिसं भणए / दूओ अदिओ अ तुमं नज्जसि एएण वयणेणं // 1012 // पढमं महुरं मज्झमि अंबिलं कडुअतित्तयं अंते / वुत्तं भुरा व तुगं जाणतो होसि चउरमुहो // 1013 // आज्ञां नो करोषि ततः-तर्हि युद्धाय-युद्धार्थ सज्जो भव, कार्यपदं इयदेव-एतावदेवास्ति // 1011 // तदुतवचनं श्रुत्वा सोऽजितसेनो राजापि ईदृशं वचनं भणति, कीदृशं भणतीत्याह-अरे त्वं एतेन वचनेन लि दतश्च(द्विजो)-ब्राह्मणो ज्ञायते // 1012 // प्रथमं मधुरं, मध्ये आम्लं, अन्ते कटुकं तिक्तं च-तीक्ष्णं ईदृशं वचनं वक्तुम्-कथयितुं ईदृशं भोजनं भोक्नु जानन् त्वं चतुमुखो भवसि, चत्वारि मुखानि यस्य स तथा // 1013 // १०११-अत्र 'गव्वपव्वयमारूढो' इत्येकस्मिन्नेव शब्दखण्डे छेकानुप्रासात्मशब्दालङ्कारस्य रूपकासत्मार्थालङ्कारस्य च समावेशात् एकवाचकानुप्रवेशसङ्करोऽलङ्कारः अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयास्थितौ सन्दिग्धत्वे च पुनः सङ्करत्रिविधः स्मृतः' इति काव्यप्रकाशः।। १०१२-यथा दूतेन श्रीपालस्य प्रभुत्वं स्थापितं तथैव तेन राक्षाऽपि दूतसमक्षं निज तेजो दर्शितमिति व्यक्ता तदीया युद्धेच्छा / १०१३-अत्र दूतस्य चतुर्मुखत्ववर्णनद्वारेणोपहासः कृतो व्यज्यते /