________________ सिरिसिरि वालकदा 65555 ता काऊण पसायं सामिअ ! गिण्हेह त निरं रज्जं / ज पिअपट्टनिविढे पदं दिढे मे सुहं होही // 994 // तो पभणइ नरनाहो अमच्च ! सच्चं तए इमं भणिों / किंतु उवायचउक्ककमेण किज्जंति कज्जाइं // 995 // जह सामेण सिज्झइ कज्जं ता किं विहिज्जए दंडो? / जइ समइ सक्कराए पित्तं ता किं पटोलाए ? // 996 // यत्-यतः कारणात् पइंति-त्वां प्रति पितुः पट्टे निविष्ट--उपविष्टे दृष्टे सति मे--मम सुखं भविष्यति // 994 // ततः-तदनन्तरं नरनाथो-राजा श्रीपालः प्रभणति, हे अमात्य !-हे मन्त्रिन् ! त्वया इदं सत्यं भणितं, किन्तु उपायानां-सामदामदण्डभेदाख्यानां यच्चतुष्कं तस्य क्रमेण कार्याणि क्रियन्ते // 995 // यदि साम्नामधुरवचनेन कार्य सिध्यति तत्-तर्हि किं-किमर्थ दण्डो विधीयते-क्रियते, अमुमेवार्थमर्थान्तरन्यासेन द्रढयति, ९९४-स्पष्टम् / ९९५-अनेन विवेकातिशयो व्यज्यते, सर्वशक्तिमानपि योऽत्यन्तमपकारिणमपि प्रतिपक्ष क्षमते स पव क्षमी कथ्यते 'विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः' इति न्यायादिति भावः / ९९६-साम्ना सिध्यतः कार्यस्य कृते दण्डेन किं विधेयमिति पूर्वार्द्धप्रतिपाद्यस्यार्थस्य शर्करया पित्तशमने पटोलया किमित्युत्तरार्द्धप्रतिपाद्येनार्थेन समर्थनादर्थान्तरन्यासोऽलङ्कारः / // 180 //