________________ तो विम्हिओ अ मालवराया जामाउअंपि पणमेइ / पभणेइ अ सामि ! तुमं महप्पभावोवि नो नाओ // 956 // सिरिपालोवि नरिंदो पभणइ न हु एस मह पभावोत्ति / किंतु गुरुवइट्ठाणं एस पसाओ नवपयाणं // 957 // सोऊण तमच्छरियं तत्थेव समागओ समग्गोऽवि / सोहग्गसुंदरीरुप्प-सुंदरीपमुहपरिवारो॥९५८॥ & स्तेन मद्भाऽद्य तव गलात्-त्वत्कण्ठात् एष कुठारकः स्फेटितः--त्याजितः // 955 // ततश्च विस्मितो-विस्मयं प्राप्तो मालवस्य राजा-प्रजापालो जामातरमपि श्रीपालं प्रणमति-नमस्करोति, च पुनः प्रभणति-पक्ति, हे स्वामिन् ! महान्प्रभावो यस्य स महाप्रभावोऽपि तं मया न ज्ञातः, श्रीपालोऽपि नरेन्द्रः प्रभणति, एष मम प्रभावो न हि अस्तीति, किन्तु गुरूपदिष्टानां नवपदानां एष प्रसादोऽस्ति // 957 // तत् आश्चर्य श्रुत्वा सोभाग्यसुन्दरीप्रमुखः समग्रोऽपि-समस्तोऽपि परिवारस्तत्रैव-राजपटमण्डपे समागतः॥ 958 // ९५६-स्पष्टम् / ९५७-अत्र श्रीपालस्प नवपदप्रसादमहात्म्यवर्णनान्निरभिमानिता व्यज्यते / ९५७-९५८-९५९-अत्र मूलनट्याः स्वकृत्य निर्वर्तयितुं भणिताया अपि स्वासनादनुत्थानं सहृदयचित्ते किमपि कौतूहलमुत्पादयतीवेतिबोध्यम् /