________________ सिरिसिरि // 169 // * मरहट्ठ य सोरट्ठ य सलाडमेवाडपमुहभूवाले। साहतो सिरिपालो मालवदेसं समणुपत्तो॥९२८ // तं परचक्कागमणं सोऊणं चरमुहाओ अइगरुयं / सहसत्ति मालविंदो भयभीओ होइ गढसज्जो // 929 // कप्पडचुप्पडकणतिणजलइंधणसंगहा य किज्जंति / सजिज्जंति अ जंता तह सज्जिज्जति वरसुहडा // 930 // महाराष्ट्रसौराष्ट्रलाटसहितमेदपाटप्रमुखा देशविशेषास्तेषां ये भूपाला राजानस्तान (साधयन् ) श्रीपालो मालवदेश सं-सम्यक्-प्रकारेण अनुप्राप्तः // 928 // मालवस्येन्द्रो-मालवेन्द्रः प्रजापालो राजा चरमुखात् हेरिकमुखात अतिगुरुकं-अतिमहत् तत्परचक्रागमनं परसैन्यागमनं-श्रुत्वा सहसा इति-अकस्मात् भयभीतः सन् दुर्गसजो भवति, दुर्गे सजीकृत्य स्थितवानित्यर्थः // 929 // तथाहि-'कप्पड' ति वस्त्राणि 'चुप्पड' ति घृतादि कणा-धान्यानि तृणानि-घासादीनि जलंपानीयं इन्धनानि-ज्वालनकाष्ठादीनि तेषां सङ्ग्रहाः क्रियन्ते, च पुनः यन्त्राणि-शतघ्न्यादीनि सज्ज्यन्ते ९२८--स्पष्टम् / ९२९–अत्र चरमुखात् परचक्रागमनश्रुत्या राक्षस्तस्य चारचक्षुःशालिता व्यज्यते 'तथा च किरातार्जुनीये' क्रियासु युक्तैः नृप चारचक्षुषो न वञ्चनीषाः प्रभवोऽनुजीविभिः इति / ९३०-अत्र कप्पड चुप्पडकण तिणेत्याद्यंशे छेकानुप्रास-वृत्त्यनुप्रासालङ्कारौ / %SEC5453 * *** * // 169 // *