________________ वालकहा सिरिसिरि // 167 // ॐॐॐ तो तीए साणंदं दिट्ठो सो समणसायरससंको। सिरिपालो भूवालो सिणिद्धमुद्धेहिं नयणेहिं // 918 // महसेणो भणइ निवं अम्ह तुम्हेहिं जीविअं दिन्नं / तो जीविआओ अहियं एयं गिण्हेह तुज्झेवि // 919 // इअ भणिऊणं रन्ना नियकन्ना तस्स रायरायस्स / दिन्ना सा तणावि हु परिणीआ झत्ति तत्व // 920 // // 917 // ततः-तदनन्तरं तया- राजकन्यया सानन्दं-सहर्ष यथा स्यात्तथा सश्रीपालो भूपालः स्निग्धमुग्धाभ्यां नयनाभ्यां दृष्टः, कीदृशः सः ?--स्वमन एव सागरः-समुद्रस्तत्र शशङ्कः-चन्द्र इव स्वमनः सागरशशाङ्कस्तदुल्लासकत्वादिति भावः 918 // अथ महासेनो राजा नृपं -श्रीपालं भणति, युष्माभिरस्मभ्यं जीवितं दत्तं, ततःतस्मात्कारणात् जीवितादप्यधिकां एतां मत्पुत्रीं यूयमपि गृहणीत / / 919 // इति भणित्वा उक्त्वा महासेनेन राज्ञा तस्मै राजराजाय -महाराजाय निजकन्या दत्ता, राज्ञां राजा राजराजस्तस्मै इति विग्रहः, तेन श्रीपालमहाराजेनापि झटिति-शीघ्र तत्रैव स्थाने सा परिणीता // 920 // ९१८-अत्र श्रीपाले चन्द्रत्वारोप प्रति कन्यामनसि सागरत्वारोपस्य कारणतया परम्परितरूपकमलङ्कारः। ९१९-स्पष्टम् / ९२०-अत्र 'रना नियकन्ना' 'राय रायस्स' इत्यत्र च छेकानुप्रासोऽलङ्कारः।