SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ एएहिं नवपरहि, सिद्धं सिरिसिद्धचक्कमेअं जं / तस्सुद्धारो एसो, पुवायरिएहिं निद्दिट्ठो // 195 // गयणमकलिआयंतं, उड्ढाहसरं सनायविन्दुकलं / सपणवीआणाय-मंतसरं सरह पीढंमि // 196 // एतैर्नवभिः पदैः सिद्ध-निप्पन्नं यदेतत् श्रीसिद्धचक्रं, तस्य सिद्धचक्रस्य एष उद्धारः पूर्वाचार्यनिर्दिष्टः-- कथितः // 195 // अथ ग्रन्थकार एकादशगाथाभिः सिद्धचक्रोद्धारविधिमाह--गयणेत्यादि-अत्र गगनादिसंज्ञा मन्त्रशास्त्रेभ्यो ज्ञेया, तत्र गगनशब्देन 'इ' हत्यक्षरमुच्यते, 'पीठंमित्ति मृलपीठे-यन्त्रस्य सर्वमध्ये 'ह' इत्यक्षरं यूयं स्मरत, इह च स्मरणमेवाधिकृतं स्मरणस्याशक्यत्वे पदस्थध्यानसाधनाथ मनोज्ञद्रव्यैर्वहिकापट्टादौ लिखनमपि पूर्वाचायॆराम्नातम्, एवमग्रेऽप्यहम् , तत्रादौ हकाराक्षरं लेखनीयमिति प्रकृतं, तत्कीदृशं ? इत्याह -अस्य -अकाराक्षरस्य कलिका व्याकरणसंज्ञामयी वक्राऽइत्यक्षररूपा तयाऽवन्तं सहितम् आदौ कलिकया युक्तं ततोऽह इति स्यात् पुनस्तद्गगनबीजं कीदृशं ? " उड्ढाहसर" ऊर्धाधः सह रेण- रकारेण वर्तते इति सर हकारस्योलमधश्च रकारो दीयते, ततोऽह इति जातं, पुनः कीदृशं तत् ? सनादविन्दुकलं नादोर्द्धचन्द्राकारोऽक्षरस्योपरि अनुना १९५-"एपहिं पये हिं' इत्यत्र वृत्त्यनुप्रासः, “सिद्धं सिरिसिद्ध' इत्यत्र वृत्यनुप्रासश्चालङ्कारौ बोद्धव्यो। Dok ASSIG
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy