________________ सिरिसिरि वालकहा इक्विकस्स उ भेआ नेया कमसो दु तिन्नि चत्तारि / तत्थरिहंता सिद्धा दो भेआ देवतत्तस्स // 561 // आयरिअउवज्झाया सुसाहणो चेव तिन्नि गुरुभेआ। दसणनाणचरित्तं तवो अ धम्मस्स चउभेआ // 562 // एएस्सु नवपएसुं अवयरिअं सासणस्स सव्वस्सं / ता एयाई पयाइं आराहह परमभत्तीए // 563 // तत्त्वस्य क्रमेण द्वौ त्रयश्चत्वारश्च भेदा ज्ञेयाः-देवतत्वस्य द्वौ भेदो गुरुतत्वस्य त्रयो भेदाः धर्मतत्वस्य चत्वार इत्यर्थः, तत्र देवतत्वस्य द्वौ भेदौ अर्हन्तः 1 सिद्धाश्च 2 // 561 // आचार्या 1 उपाध्यायाः 2 सुसाधव 3 श्चैव एते त्रयो गुरुतत्त्वस्य भेदाः, तथा दर्शन-सम्यक्त्वं 1 ज्ञान-तचावबोधः 2 चारित्रं-विरतिरूपं 3 तपश्च| अनशनादि 4 एते धर्मतत्वस्य चत्वारो भेदाः / / 562 // एतेषु नवपदेषु जिनशासनस्य सर्वस्व-सर्वसारं अवतीर्ण अस्तीति शेषः ततः तस्मात् भो भो भव्या ! यूयं एतानि पदानि परमभक्त्या आराधयतसेवध्वम् // 563 // ५६१-क्रमश पतान्येव त्रीणि तत्वानि यथासंख्यं द्वित्रिचतुर्भेदानि प्रसिद्धानि नव पदानि भवन्ति / ५६२-स्पष्टम् / ५६३--पतेषु नवपदेषु जिनशासनसर्वस्वताकथनेन पतदाराधनात् सर्वमप्याराधितं भवतीति बोधनेन पतस्य सवाधिकमहत्त्वमापादितं सूच्यते /