________________ बालकहा सिरिसिरि // 104 // कुमरोवि जिणं नमि सीमि निवेसिऊण जिणसेसं / बहिमंडवंमि करवंदणेण वंदेइ नरनाहं // 555 // नरनाहो अभिणंदिअ तं पभणइ वच्छ ! जह तए 'भवणं / उग्घाडियं तहा नियचरियपि हु अम्ह पयडेसु // 556 // निअ नामपि हु जंपंति उत्तमा ता कहेमि कह चरिअं / इअ चिंतइ जा कुमरो ता पत्तो चारणमुणिंदो॥ 557 // कुमारोऽपि जिन नत्वा-प्रणम्य शीर्ष-निजमस्तके जिनशेपां-जिननिर्माल्यं पुष्पादिकं निवेश्य-संस्थाप्य बहिमण्डपे कराभ्यां वन्दनेन नरनाधं-राजानं वन्दते-प्रणमति // 555 // नरनाथो-राजा त श्रीपालं अभिनन्द्य आशिषा सन्तोष्य प्रभणति-हे वत्स ! यथा त्वया भवनं-जिनमन्दिरं उद्घाटित तथा निजचरितमपि अस्माकं पुरस्तात् प्रकटय-प्रकटीकुरु // 556 // ह इति निश्चितं उत्तमाः पुरुषा निजनामापि न जल्पन्ति-न कथयन्ति, ततः-तर्हि स्वस्य चरितं कथं कथयामि ?, इत्येवं यावत्कुमारश्चिन्तयति तावत्तत्र चारणमुनीन्द्रः प्राप्त-आका ५५५-स्पष्टम् / ५५६-कुमारेण जिनभवनोद्धाटे कृते कन्याऽवश्यमेतस्मै देया, कीदृशं कुलादिकमस्येति चिन्ताऽऽवश्यकी व्यज्यते / ५५७-अत्र स्वनामा पुरुषो धन्यः इत्यायुक्त्या परतः स्वीयमहत्त्वण्यापने संकोचातिशयो “वम्यते, काकतालीयन्यायेन मुनिसमागमनं श्रीपालपुण्यत इति वेदितव्यम् /